________________
त्रिषष्टिशलाका
पुरुषचरिते
1138 11
यतिनेवाऽचरित्रेण, सैन्येनेवाऽपशस्त्रिणा । मुखेनेवाऽक्षिहीनेन, निर्धर्मेण नरेण किम् ? ।। ३१० ।। ॥ त्रिभिर्विशेषकम् ॥
चक्रवत्र्त्यप्यधर्मः सन्, जन्म तल्लभते पुनः । कदन्नमपि सम्प्राप्तं, साम्राज्यं यत्र मन्यते ।। ३११ ।। महाकुलप्रसूतोऽपि धर्मोपार्जनवर्जितः । भवेद् भवान्तरे श्वेव, परोच्छिष्टान्न भोजनः ।। ३१२ ।। धर्महीनो द्विजन्माऽपि नित्यं पापानुबन्धकः । बिडाल इव दुर्वृत्तो, म्लेच्छयोनिषु जायते ॥ ३१३ ॥ बिडाल - व्याल - शार्दूल - श्येन - गृध्रादियोनिषु । भवन्ति भूयिष्ठभवा, भविनो धर्मवर्जिताः ।। ३१४ ।। धर्महीनाः कृमयः स्युरसकृच्छकृदादिषु । कुक्कुटादेर्लभन्ते च चञ्चचरणताडनम् ।। ३१५ । जायन्ते धर्मरहिता, नरा नरकभूमिषु । वैरादिव कदर्थ्यन्ते, परमाधार्मिकासुरैः ।। ३१६ ।। अनन्तव्यसनावेगज्वलनान्तरवर्त्तिनः । त्रपुः पिण्डानिव हहा !, धिगधर्मान् शरीरिणः ।। ३१७ ॥ धर्मादाप्नोति शर्माणि, परमादिव बान्धवात् । तरण्डेनेव तरति, धर्मेण विपदापगाः ।। ३१८ ।। पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः । आश्रीयन्ते च सम्पद्भिर्लताभिरिव पादपाः ।। ३१९ ।। आधि-व्याधि-विरोधादि, सर्वं बाधानिबन्धनम् । विययत्याशु धर्मेण, जलेनेव हुताशनः ॥ ३२० ॥ जन्मान्तरेऽप्यर्पणाय, सर्वकल्याणसम्पदाम् । प्रतिभूर्धर्म एवाऽयमलङ्कर्मणविक्रमः ।। ३२१ ।। किमन्यदुच्यते स्वामिन् ! ?, धर्मेणैव बलीयसा । सौधाग्रमिव निश्रेण्या, लोकाग्रं यान्ति जन्तवः ॥ ३२२ ॥ विद्याधरनरेन्द्रत्वं धर्मेणैव त्वमासदः । अतोऽप्युत्कृष्टलाभाय, धर्ममेव समाश्रय ।। ३२३ । १ कुत्सितमन्नम् । यत्र राज्याय मन्यते संता ॥ २ पौनःपुन्येन विष्ठादिषु । ३ सीसकपिण्डान् । ४ शाम्यति । ५ समर्थपराक्रमः ।
प्रथमं पर्व
प्रथमः
सर्गः
श्री ऋषभ --
स्वामि
चरितम् ।
पूर्वभव
चरिते
चतुर्थो
महाबल
भवः ।
1138 11