________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः
सर्गः
॥ २३ ॥
श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते
अन्तको जन्तुभिः किं वा ?, किमेधोभिर्हताशनः ? । सुखैवैषयिकैरात्मा, किं तथैष कदाचन ? ||२९६ ।। कूलच्छाया दुर्जनाश्च, विषं च विषयास्तथा । दन्दशूकाश्च जायन्ते, सेव्यमाना विपत्तये ।। २९७ ॥ आसेव्यमानस्तकालसुखोऽन्तविरसः स्मरः । कण्डूय्यमाना पामेव, निकामं च प्रवर्द्धते ।। २९८ ।। कामोऽयं नरकदूतः, कामो व्यसनसागरः । कामो विपल्लताकन्दः, कामः पापद्रुसारणिः ।। २९९ ।। मदनेन मदेनेव, जनः परवशीकृतः । सदाचारपथभ्रष्टः, पतत्येव भवावटे ।। ३०० ।। अर्थं धर्मं च मोक्षं च, वेश्मेव गृहमेधिनः । आसादितप्रवेशोऽयं, खनत्याखुरिव स्मरः ।। ३०१ ।। दर्शनेन स्पर्शनेनोपभोगेन च निर्भरम् । व्यामोहायैव जायन्ते, विषवल्ल्य इव स्त्रियः ।। ३०२ ।। निकाममेव कामिन्यः, कामलुब्धकवागुराः । हरिणानामिव नृणां, जायन्तेऽनर्थहेतवे ।। ३०३ ॥ ये नर्मसुहृदः खादाचामैकसुहृदो हि ते । स्वामिनश्चिन्तयन्त्येते, परलोकहितं न यत् ।। ३०४ ।। स्त्रीकथाभिर्गीतनृत्तैर्नर्मोक्त्या मोहयन्त्यमी । षिङ्गाः स्वस्मामिनमहो!, नीचाः स्वार्थकतत्पराः ।। ३०५ ।। कुसंसर्गात् कुलीनानां, भवेदभ्युदयः कुतः ? । कदली नन्दति कियद् ?, बदरीतरुसन्निधौ ।। ३०६ ।। तत्प्रसीद कुलस्वामिन् !, स्वयं विज्ञोऽसि मा मुहः । विहाय व्यसनासक्तिं, मनो धर्मे निधीयताम् ॥ ३०७ ॥ निश्छायेन द्रुमेणेव, सरसेवाऽपवारिणा । निर्गन्धेनेव पुष्पेण, विदन्तेनेव दन्तिना ।। ३०८ ।। रूपेणेवाऽलवणिम्ना, राज्येनेवाऽपमन्त्रिणा । अदेवेनेव चैत्येन, रजन्येवेन्दुहीनया ।। ३०९ ।। १ यमराजः । २ काष्ठैः । ३ खसः । ४ भवकूपे । ५ मूषकः । ६ खानपानकमित्राणि । ७ विटाः ।
चतुर्थो
महाबलभवः ।
॥ २३ ॥