________________
त्रिषष्टिशलाका
पुरुषचरि
॥ २२ ॥
अभूवंस्तत्पुरो नित्यसङ्गीतप्रति शब्दितैः । सङ्गीतकानुवादिन्य, इव वैताढ्यकन्दराः ।। २८२ ॥ अग्रतः पार्श्वयोः पश्चान्नारीभिः परिवेष्टितः । स चकासामास रसः शृङ्गार इव मूर्तिमान् ॥ २८३ ॥ स्वच्छन्दं तस्य विषयक्रीडाव्यग्रस्य सर्वदा । समरात्रिन्दिवः कालो, बभूव विषुवन्निभः ॥ २८४ ॥ अनेकामात्यसामन्तैर्मणिस्तम्भैरिवाऽपरैः । परिष्कृतां निजास्थानीं, सोऽधितस्थावथैकदा ॥ २८५ ॥ तं नत्वोपाविशन् सर्वे, यथास्थानं सभासदः । ते तदेकाग्रनयना, योगिलीलामधारयन् ॥ २८६ ॥ ते स्वयम्बुद्ध - सम्भिन्नमती शतमतिस्तथा । महामतिश्च तत्रासाञ्चक्रिरे मन्त्रिणोऽपि हि ॥ २८७ ॥ स्वामिभक्तिसुधासिन्धुर्मनीषारत्नरोहणः । सम्यग्दृष्टिः स्वयम्बुद्ध इति तत्र व्यचिन्तयत् ॥ २८८ ॥ अस्माकं पश्यतामेष, दुर्वाजिभिरिवेन्द्रियैः । ह्रियते विषयासक्तः, स्वामी धिग् न उपेक्षकान् ॥ २८९ ॥ ईदृग्विनोदव्यग्रस्य, जन्माऽस्मत्स्वामिनो मुधा । यातीति ताम्यति मनो, मीनः स्तोक इवाम्भसि ।। २९० ।। अस्माभिर्मन्त्रिभिरसौ न चेदुच्चैः पदं श्रयेत् । तदस्माकं भवेन्नर्ममन्त्रिणां च किमन्तरम् ? ॥ २९१ ॥ तद्विज्ञपय्य नेतव्योऽस्माभिः स्वामी हिते पथि । नीयन्ते यत्र तत्रैते, यान्ति सारणिवन्नृपाः ।। २९२ ।। यद्यप्यपवदिष्यन्ते, स्वामिव्यसनजीविनः । वाच्यं तथाऽपि नोप्यन्ते, यवा मृगभयेन किम् ? ॥ २९३ ॥ विमृश्येति स्वयम्बुद्धो, धौरेयो बुद्धिशालिनाम् । इति विज्ञपयामास, राजानं रचिताञ्जलिः ।। २९४ ॥ आसंसारं सरिनाथः, किं तृप्यति सरिज्जलैः ? । सरित्पतिपयोभिर्वा, किमेष वडवानलः ? ॥ २९५ ॥
★ पुरे नि । १ सङ्गीतस्य अनुकरणं कुर्वन्त्यः । २ समारात्रिदिनात्मकः कालो विषुवत् । ३ सभाम् । ४ बुद्धिरत्नस्य रोहणाचलरूपः । ५ समुद्रः । ६ समुद्रः ।
प्रथमं पर्व
प्रथमः
सर्गः
ऋषभचरितम् ।
पूर्वभव
चरिते चतुर्थो
महाबल
भवः ।
॥ २२ ॥