________________
त्रिषष्टिशलाकापुरुषचरिते
॥२१॥
स राज्यभारमुद्वोढुं, मेने पितृनिदेशतः । भवन्ति हि महात्मानो, गुर्वाज्ञाभङ्गभीरवः ।। २६७ ॥ ततः शतबलः सिंहासनेऽध्यास्य महाबलम् । अभिषिच्य स्वहस्तेन, चक्रे तिलकमङ्गलम् ।।२६८ ॥ स रराज नवो राजा, कुन्दसोदरकान्तिना । चान्दनेन तिलकेनोदयाचल इवेन्दुना । ।। २६९ ॥ पैतृकेणाऽऽतपत्रेण, हंसपत्रामलेन सः । शुशुभे शारदाभ्रेण, गिरिराज इवोच्चकैः ।। २७० ॥ विरेजे प्रेवत्ता चारुचामरद्वितयेन सः । बलाकायुगलेनेव, विमलेन बलाहकः ।। २७१ ॥ तस्याऽभिषेके गम्भीरतरो मङ्गल्यदुन्दुभिः । दध्वान ध्वनयन्नाशाश्चन्द्रोदय इवोदधिः ।। २७२ ।। समन्तान्मन्त्रिसामन्तैः, समेत्य समनम्यत । द्वैतीयीकः शतबल, इव रूपान्तरेण सः ।। २७३ ।। पुत्र राज्ये निवेश्यैवं, स्वयं शतबलस्ततः । आददे शमसाम्राज्यमाचार्यचरणान्तिके ।। २७४ ।। सोऽसारान् विषयान् प्रोज्झ्य, सारं रत्नत्रयं दधौ । तथाऽप्यखण्डा तस्यासीत्, सर्वत्र समचित्तता ।।२७५ ।। मूलादुन्मूलयामास, कषायान् स जितेन्द्रियः । कूलङ्कषापूर इव, कूलस्थितमहीरुहान् ॥२७६ ।। आत्माराममना वाचंयमो नियतचेष्टितः । अधिसेहे महासत्त्वो, दुःसहान् स परीषहान् ॥२७७ ॥ मैत्र्यादिभिर्भावनाभिः, प्रवृद्धध्यानसन्ततिः । सोऽमन्दानन्दनिर्मग्नस्तस्थौ मुक्ताविवाऽनिशम् ।। २७८ ।। ध्यानेन तपसा चाऽऽयुर्लीलयैवाऽतिवाह्य सः । महात्मा सादयामास, सदनं त्रिदिवौकसाम् ।। २७९ ।। महाबलोऽपि बलिभिः, खेचरैः परिवारितः । आखण्डल इवाऽखण्डशासनः प्रशशास गाम् ।। २८० ॥ रम्यास्वारामराजीषु, स रेमे रमणीवृतः । मुदितः पङ्करुहिणीखण्डेष्विव सितच्छदः ।। २८१ ॥ १ मेघः । २ नद्याः पूर इव । ३ इन्द्रः । ४ पृथ्वीम् । ५ हंसः ।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभव चरिते चतुर्थो महाबल भवः ।
॥२१॥