________________
त्रिषष्टिशलाकापुरुषचरिते
॥२०॥
सत्कृतोऽनेकशोऽप्येष, सक्रियेत यदापि न । तदापि विक्रियां याति, कायः खलु खलोपमः ।। २५२ ।। अहो ! बहिर्निपतितैर्विष्ठ-मूत्र कफादिभिः ।हणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितैर्न किम् ? ।।२५३ ।। रोगाः समुद्भवन्त्यस्मिन्नत्यन्तातङ्कदायिनः । दन्देशूका इव क्रूरा, जरविटपिकोटरे ।। २५४ ।। निसर्गाद् गत्वरश्चाऽयं, कायोऽब्द इव शारदः । दृष्टनष्ट च तत्रेयं, यौवनश्रीस्तडिन्निभा ।।२५५ ॥ आयुः पताकाचपलं, तरङ्गत्तरलाः श्रियः । भोगिभोगनिभा भोगाः, सङ्गमाः स्वप्नसन्निभाः ।। २५६ ॥ काम-क्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् । आत्मा शरीरान्तःस्थोऽसौ, पच्यते पुटपाकवत् । २५७ ।। विषयेष्वतिदुःखेषु, सुखमानी मनागपि । नाऽहो ! विरज्यति जनोऽशुचिकीट इवाऽशुचौ ।। २५८ ॥ दुरन्तविषयास्वादपराधीनमना जनाः । अन्धोऽन्धुमिव पादाग्रस्थितं मृत्युं न पश्यति ।। २५९ ।। आपातमात्रमधुरैर्विषयैर्विषसन्निभैः । आत्मा मूछित एवाऽऽस्ते, स्वहिताय न चेतति ।। २६० ।। तुल्ये चतुर्णा पौमर्थ्य, पापयोरर्थकामयोः । आत्मा प्रवर्त्तते हन्त !, न पुनर्धर्ममोक्षयोः ॥२६१ ।। अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयँ, मानुष्यमतिदुर्लभम् ।। २६२ ।। मानुष्यकेऽपि सम्प्राप्ते, प्राप्यन्ते पुण्ययोगतः । देवता भगवानहन्, गुरवश्च सुसाधवः ।।२६३ ।। मानुष्यकस्य यद्यस्य, वयं नादद्म हे फलम् । मुषिताः स्म तदधुना, चौरैर्वसति पतने ।।२६४॥ तदद्य कवचहरे, कुमारेऽस्मिन् महाबले । राज्यभारं समारोप्य, कुर्महे स्वसमीहितम् ।। २६५ ।। विमृश्यैवं शतबलः, समाहूय महाबलम् । विनीतं बोधयामास, राज्यग्रहणहेतवे ।। २६६ ।। १ सर्पाः । * निसर्गग ।२ सर्पफणातुल्यः । ३ कूपम् । ४ पुरुषार्थत्वे । + संसारे पा। - बलस्तदा ।
प्रथम पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभव चरिते चतुर्थो महाबल भवः ।
॥२०॥