________________
त्रिषष्टिशलाकापुरुषचरिते
॥१९॥
दिवीव तत्र कल्पद्रुसम्पन्नसकलेप्सितः । धनजीवो युग्मधर्माऽन्वभूद् वैषयिकं सुखम् ॥ २३७ ।। मिथुनायुः पालयित्वा, धनजीवस्ततश्च सः । प्राग्जन्मदानफलतः, सौधर्मे त्रिदशोऽभवत् ।। २३८ ।। च्युत्वा सौधर्मकल्पाच्च, विदेहेष्वपरेष्वथ । विजये गन्धिलावत्यां, वैताढ्यपृथिवीधरे ॥ २३९ ।। गन्धाराख्ये जनपदे, पुरे गन्धसमृद्धके । राज्ञः शतबलाख्यस्य, विद्याधरशिरोमणेः ।। २४० ।। भार्यायां चन्द्रकान्तायां, पुत्रत्वेनोदपादि सः । नाम्ना महाबल इति, बलेनाऽतिमहाबलः ।। २४१ ।। रक्ष्यमाणः स आयुक्तैर्लाल्यमानस्तथा तथा । वृद्धिमासादयामास, शाखीव क्रमयोगतः ।। २४२ ।। कलानिधिरिवाऽशेषकलापूर्णः शनैः शनैः । स बभूव महाभागो, जनानां नयनोत्सवः ।। २४३ ।। स कन्यां विनयवतीं, मूर्ती तु विनयश्रियम् । समये समयाभिज्ञः, पित्रादेशादुपायत ।। २४४ ।। निशातमस्त्रं कामस्य, कामिनीजनकार्मणम् । रतिलीलावनं सोऽथ, यौवनं प्रत्यपद्यत ।। २४५ ।। ऊमौ समतलौ तस्य, क्रमात् कूर्मवदुन्नतौ । सिंहमध्याधरीकारधुरीणं मध्यमप्यभूत् ।। २४६ ।। उरःस्थलं चाऽकलयत्, स्वर्णशैलशिलातुलाम् । उद्धरौ दधतुः स्कन्धौ, ककुद्मत्ककुदश्रियम् ।। २४७ ।। भुजौ भुजङ्गमाधीशभोगशोभां च बभ्रतुः । अर्धाभ्युदितराकेन्दुलीलामलिकेमाददे ।। २४८ ।। रदैनखैर्मणिनिभैर्वपुषा कनकत्विषा । सकलां कलयामास, मेरुलक्ष्मी स्थिराकृतिः ।। २४९ ।। अपरेधुः शतबलो, विद्याधरपतिः सुधीः । महासत्त्वस्तत्त्वविज्ञश्चिन्तयामासिवानिदम् ।।२५० ।। विधाय सहजाऽशौचमुपस्कारैर्नवं नवम् । गोपनीयमिदं हन्त ! कियत्कालं कलेवरम् ? ॥२५१ ।। १ देवः । २ रक्षकैः । ३ वृक्ष इव । ४ तीक्ष्णम् । ५ चरणौ । * विभ्रतुः सं १, आ ॥ ६ ललाटम् । ७ संस्कारैः ।
SHAHARASHTRARASHRS
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभव चरिते चतुर्थी महाबल भवः ।
॥ १९॥