________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१८॥
महाटवीं समुत्तीर्णे, सार्थे सार्थपतिं ततः । अनुज्ञाप्याऽऽचार्यवर्या, विहर्तुं ययुरन्यतः ।। २२२ ।। ततश्च सार्थवाहोऽपि, निष्प्रत्यूहं वहन् पथि । पाथोधिमिव नद्योघो, वसन्तपुरमासदत् ।। २२३ ॥ विक्रीणीते स्म भाण्डानि, प्रतिभाण्डानि चाऽऽददे । कालेन कियताऽप्येष, धीमन्तो ह्याशुकारिणः ।।२२४ ।। परितो भरितस्तस्माद्, वारिधेरिव वारिदः । क्षितिप्रतिष्ठं नगरं, पुनरप्याययौ धनः ।। २२५ ।। कालेन तत्र पूर्णायुः, कालधर्ममुपागतः । आस्थितैकान्तसुषमेषूत्तरेषु कुरुष्वसौ ।। २२६ ।। सीतानद्युत्तरतटे, जम्बूवृक्षानुपूर्वतः । उत्पेदे युग्मधर्मेण, मुनिदानप्रभावतः ।। २२७ ।। तत्राऽष्टमस्य पर्यन्ते, मा भोज्याभिलाषिणः । षट्पञ्चाशशतद्वन्द्वसङ्ख्यपृष्ठकरण्डकाः ।। २२८ ।। युग्मरूपास्त्रिगव्यूतोच्छ्रयाः पल्यत्रयायुषः । पर्यन्तप्रसवाः स्वल्पकषाया ममतोज्झिताः ।। २२९ ॥ अपत्ययुग्ममेकोनपञ्चाशतमहानि तु । पालयित्वा विपद्यन्तेऽथोत्पद्यन्ते सुरेषु ते ।। २३० ॥ शर्करास्वादुसिकताः, शरज्ज्योत्स्नानिभाम्भसः । तत्रोत्तरेषु कुरुषु, भूम्यो रम्याः स्वभावतः ।। २३१ ।। मद्याङ्गप्रमुखास्तत्र, दशधा कल्पपादपाः । मनुजानामयत्नेन, सदा यच्छन्ति वाञ्छितम् ।। २३२ ॥ ददते तत्र मद्याङ्गा, मद्यं भृङ्गास्तु भाजनम् । तूर्याङ्गकास्तु तूर्याणि, वर्याणि विविधैर्लयैः ।। २३३ ॥ दीपशिखा ज्योतिष्काश्च, तन्वन्त्युद्दयोतमद्भुतम् । माल्यं यच्छन्त चित्राङ्गा, भोज्यं चित्ररसाः पुनः ॥२३४ ॥ भूषणानि तु मण्यङ्गा, गेहाकारा गृहाणि तु । सम्पादयन्ति चाऽनग्ना, दिव्यवासांस्यनेकशः ।। २३५ ॥ एते च नियतानर्थान, यच्छन्त्यनियतानपि । अन्ये च कल्पतरवस्तत्र सर्वेप्सितप्रदाः ।। २३६ ।। १ निर्विघ्नम् । २ चतुर्थे दिवसे । ३ पृष्ठस्थितसूक्ष्मगात्रावयवाः ।
पूर्वभवचरिते द्वितीययुगलिक भवः ।
।। १८॥