SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। १५ ।। रत्नत्रयधरो धीरः, समकाञ्चनलेष्टुकः । शुभध्यानद्वयस्थास्नुर्जिताक्षः कुक्षिशम्बलः ।। १८० ।। निरन्तरं यथाशक्ति, नानाविधतपः परः । संयमं सप्तदशधा, धारयन्नविखण्डितम् ॥ १८१ ॥ अष्टादशप्रकारं च, ब्रह्मचर्यं समाचरन् । यत्रेदृग् ग्राहको दानं तत् स्याद् ग्राहकशुद्धिमत् ॥ १८२ ।। देयशुद्धं द्विचत्वारिंशद्दोषरहितं भवेत् । पाना - ऽशन - खाद्य - स्वाद्य - वस्त्र - संस्तारकादिकम् ॥ १८३ ॥ कालशुद्धं तु यत् किञ्चित् काले पात्राय दीयते । भावशुद्धं त्वनाशंसं, श्रद्धया यत् प्रदीयते ।। १८४ ।। न देहेन विना धर्मो न देहोऽन्नादिकं विना । धर्मोपग्रहदानं तद्, विदधीत निरन्तरम् ।। १८५ ॥ पात्रेभ्योऽशनपानादिधर्मोपग्रहदानतः । करोति तीर्थोव्युच्छित्तिं प्राप्नोति च परं पदम् ।। १८६ ।। शीलं सावद्ययोगानां, प्रत्याख्यानं निगद्यते । द्विधा तद्देशविरति - सर्वविरतिभेदतः ।। १८७ ॥ देशतो विरतिः पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षाव्रतानि चत्वारि, चेति द्वादशधा मताः ।। १८८ । तत्र स्थूलाऽहिंसा-सत्या - Sस्तेय - ब्रह्मा - Sपरिग्रहाः । अणुव्रतानि पञ्चेति, कीर्त्तितानि जिनेश्वरैः ॥ १८९ ॥ अथ दिग्विरतिर्भोगोपभोगविरतिस्तथा । अनर्थदण्डविरतिश्चैवं गुणव्रतत्रयी ॥ १९० ॥ सामायिकं च देशावकाशिकं पौषधस्तथा । अतिथीनां संविभागः, शिक्षाव्रतचतुष्टयम् ।। १९१ ॥ तदेषा देशविरतिः, शुश्रूषादिगुणस्पृशाम् । यतिधर्मानुरक्तानां, धर्मपैथ्यदनार्थिनाम् ।। १९२ ॥ शम-संवेग-निर्वेदा-ऽनुकम्पा - ऽऽस्तिक्यलक्षणम् । सम्यक्त्वं प्रतिपन्नानां, मिथ्यात्वविनिवर्त्तिनाम् ।। १९३ ।। १ जितेन्द्रियः । २ उदरमात्रपाथेयः । ३ वाञ्छारहितम् । ४ कुर्यात् । ५ तीर्थस्य अविच्छेदम् । ६ पथ्यदनं शम्बलम् । प्रथमं पर्व प्रथमः सर्गः श्रीऋषभ स्वामिचरितम् । पूर्वभवचरिते प्रथमो धनसार्थवाह भवः । 119411
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy