________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १६॥
महात्मनां सानुबन्धक्रोधोदयविवर्जिनाम् । चारित्रमोहघातेन, जायते गृहमेधिनाम् ।। १९४ ।।
॥त्रिभिर्विशेषकम् ।। स्थूलानामितरेषां च, हिंसादीनां विवर्जनम् । सिद्धिसौधेकसरणिः, सा सर्वविरतिर्मता ।। १९५ ॥ प्रकृत्याऽल्पकषायाणां, भवसौख्यविरागिणाम् । विनयादिगुणाऽक्तानां, सा मुनीना महात्मनाम् ।। १९६ ॥ यत् तापयति कर्माणि, तत् तपः परिकीर्तितम् । तद् बाह्यमनशनादि, प्रायश्चित्तादि चाऽऽन्तरम् ।। १९७ ॥ अनशनमौनोदर्य, वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो, लीनतेति बहिस्तपः ।। १९८ ।। प्रायश्चित्तं वैयावृत्यं, स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं, षोढेत्याभ्यन्तरं तपः ।। १९९ ॥ रत्नत्रयधरेष्वेका, भक्तिस्तत्कार्यकर्म च । शुभैकचिन्ता संसारजुगुप्सा भावना भवेत् ।।२०० ॥ चतुर्धा तदयं धर्मो, निःसीमफलसाधनम् । साधनीयः सावधानैर्भवभ्रमणभीरुभिः ।। २०१ ।। धनोऽप्यूचे मया स्वामिन् !, धर्मोऽयं शुश्रुवे चिरात् । एतावन्ति दिनान्येष, वञ्चितोऽस्मि स्वकर्मभिः ।।२०२ ।। वन्दित्वा गुरुपादाब्जद्वन्द्वं शेषमुनीनपि । धन्यमन्यो निजावासं, सार्थवाहस्ततो ययौ । २०३ ।। परमानन्दनिर्मग्नो, धर्मदेशनया तया । धनस्तां क्षपयामास, क्षणदां क्षणमात्रवत् ।। २०४ ॥ सुप्तोत्थितस्य तस्याऽथ, प्रातर्मगलपाठकः । पपाठ शङ्खगम्भीरमधुरध्वनिबन्धुरः ।। २०५ ॥ घनान्धकारमलिना, पद्मिनीलक्ष्मितस्करी । व्यवसायहरा नृणां, ययौ प्रावृडिव क्षपा ।। २०६ ॥ तेजोऽभिमुखचण्डांशुर्व्यवसायसुहन्नृणाम् । शरत्काल इव प्रातःकालोऽयं जृम्भतेऽधुना ।। २०७ ।। १ सिद्धिप्रासादैकसोपानमार्गः ।२ कायोत्सर्गः । ३ रात्रिम् ।
पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
॥१६॥