SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । ॥१४॥ स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो, रूपं शब्दश्च गोचरः ॥ १६५ ।। द्वीन्द्रियाः कृमयः शङ्खाः, गण्डूपदा जलौकसः । कपर्दकाः शुक्तयश्च, विविधाकृतयो मताः ।। १६६ ।। यूका मत्कुण-मर्कोट–लिक्षाधास्त्रीन्द्रिया मताः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः ।। १६७ ।। तिर्यग्योनिभवाः शेषा, जल-स्थल-खचारिणः । नारका मानवा देवाः, सर्वे पञ्चेन्द्रिया मताः ।। १६८ ॥ तत्पर्यायक्षयाद् दुःखोत्पादात् सङ्क्लेशतस्त्रिधा । वधस्य वर्जनं तेष्वभयदानं तदुच्यते ॥ १६९ ॥ ददात्यभयदानं यो, दत्तेऽर्थान् सोऽखिलानपि । जीविते सति जायेत, यत् पुमर्थचतुष्टयी ।। १७० ।। जीवितादपरं प्रेयो, जन्तोर्जायेत जातुचित् । न राज्यं न च साम्राज्यं, देवराज्यं न चोच्चकैः ।। १७१ ।। इतोऽशुचिस्थस्य कृमेरितः स्वर्गसदो हरेः । प्राणापहारप्रभवं, द्वयोरपि समं भयम् ।। १७२ ॥ समग्रजगदिष्टायाऽभयदानाय सर्वथा । सर्वदाऽप्यप्रमत्तः सन्, प्रवर्तेत ततः सुधीः ।। १७३ ।। भवेदभयदानेन, जनो जन्मान्तरेषु हि । कान्तो दीर्घायुरारोग्य रूप-लावण्यशक्तिमान् ।। १७४ ॥ धर्मोपग्रहदानं तु, जायते तत्र पञ्चधा । दायक-ग्राहक-देय-काल-भावविशुद्धितः ॥ १७५ ॥ तत्र दायकशुद्धं तन्न्याय्यार्थो ज्ञानवान् सुधीः । निराशंसोऽननुतापी, दायकः प्रददाति यत् ।। १७६ ।। इदं चित्तमिदं वित्तमिदं पात्रं निरन्तरम् । सातं यस्य मे सोऽहं, कृतार्थोऽस्मीति दायकः ॥ १७७ ।। सावद्ययोगविरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पञ्चसमितो, रागद्वेषविनाकृतः ।। १७८ ॥ निर्ममो नगरवसत्यङ्गोपकरणादिषु । तथाऽष्टादशशीलाङ्गसहस्रधरणोद्धरः ।। १७९ ।। १ धर्मार्थकाममोक्षरूपा । २ नीतिसम्पादितार्थः । ३ निरीहः । ४ पश्चात्तापविरहितः । 625*SHAHARASHRSHASE पूर्वभवचरिते प्रथमो धनसार्थवाहभवः । ॥१४॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy