________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१३॥
ग्रैवेयकाऽनुत्तरेषु, धर्माद् यात्यहमिन्द्रताम् । धर्मादार्हन्त्यमाप्नोति, किं किं धर्मान्न सिध्यति ? ||१५१ ।। दुर्गतिप्रपतञ्जन्तुधारणाद् धर्म उच्यते । दान-शील-तपो-भावभेदात् स तु चतुर्विधः ।। १५२ ।। तत्र तावद् दानधर्मस्त्रिप्रकारः प्रकीर्तितः । ज्ञानदाना-ऽभयदान-धर्मोपग्रहदानतः ।। १५३ ।। दानं धर्मानभिज्ञेभ्यो, वाचनादेशनादिना । ज्ञानसाधनदानं च , ज्ञानदानमितीरितम् ।। १५४ ।। ज्ञानदानेन जानाति, जन्तुः स्वस्य हिताहितम् । वेत्ति जीवादितत्त्वानि, विरतिं च समश्नुते ॥ १५५ ।। ज्ञानदानादवाप्नोति, केवलज्ञानमुज्ज्वलम् । अनुगृह्याऽखिलं लोकं, लोकाग्रेमधिगच्छति ॥ १५६ ।। भवत्यभयदानं तु, जीवानां वधवर्जनम् । मनो-वाक्कायैः करण-कारणा-5नुमतैरपि ।। १५७ ।। तत्र जीवा द्विधा ज्ञेयाः, स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः ॥ १५८ ॥ पर्याप्तयस्तु षडिमाः, पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि, प्राणो भाषा मनोऽपि च ।। १५९ ।। स्युरेकाक्ष-विकलाक्ष-पञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षड् वाऽपि, पर्याप्तयो यथाक्रमम् ।। १६० ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः, स्युः सूक्ष्मा बादरा अपि ॥१६१ ॥ प्रत्येकाः साधारणाश्च, द्विप्रकारा मॅहीरुहः । साधारणा अपि द्वेधा, सूक्ष्म-बादरभेदतः ॥ १६२ ।। त्रसा द्वि-त्रि-चतुः-पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा, संज्ञिनोऽसज्ञिनोऽपि च ।। १६३ ।। शिक्षोपदेशाऽऽलापान ये, जानते ते तु संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥ १६४ ।। १ तीर्थङ्करत्वम् । २ मोक्षम् । ३ कृतकारितानुमोदितैः । ४ शरीरम् । ५ इन्द्रियाणि । ६ विकलाक्षशब्देन द्वीन्द्रियादयो विकलेन्द्रिया ग्राह्याः ।७ वनस्पतिकायाः।
पूर्वभवचरिते प्रथमो धनसार्थवाहभवः।
॥१३॥