________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १२॥
अस्याऽनुपदमेवाऽथ, साधुद्वितयमागमत् । तदर्ह चाऽन्नपानादि, दैवादासीन्न किञ्चन ।। १३७ ।। इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः । ईक्षाञ्चक्रे घृतं स्त्यानं, निजाशयमिवाऽमलम् ।। १३८ ।। इदं वः कल्पते किञ्चिदिति सार्थपतीरिते । इच्छामीति वदन् साधुः, पतद्ग्रहमधारयत् ।। १३९ ।। धन्योऽहं कृतकृत्योऽहं, पुण्योऽहमिति चिन्तयन् । रोमाञ्चितवपुः सर्पिः, साधवे स स्वयं ददौ ।। १४० ॥ आनन्दाश्रुजलैः पुयॆकन्दं कन्दलयन्निव । घृतदानावसानेऽथ, धनोऽवन्दत तौ मुनी ।। १४१ ।। सर्वकल्याणसंसिद्धौ, सिद्धमन्त्रसमं ततः । वितीर्य धर्मलाभ तौ, जग्मतुर्निजमाश्रयम् ।। १४२ ।। तदानीं सार्थवाहेन, दानस्याऽस्य प्रभावतः । लेभे मोक्षतरोर्बीजं, बोधिबीजं सुदुर्लभम् ।। १४३ ।। रजन्यां पुनरप्येषां, मुनीनामाश्रयं ययौ । स प्रविश्याऽनुजानीतेति वदन् प्राणमद् गुरून् ।। १४४ ।। धर्मघोषसूरयोऽपि, मेघनिर्घोषया गिरा । श्रुतकेवलिदेशीयां, दिदिशुर्देशनामिमाम् ।। १४५ ।। धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गाऽपवर्गदः । धर्मः संसारकान्तारोल्लङ्घने मार्गदेशकः ॥ १४६ ।। धर्मो मातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः स्निह्यति बन्धुवत् ।। १४७ ।। धर्मः सङ्क्रमयत्युच्चैर्गुणान् गुरुरिवोज्ज्वलान् । धर्मः प्रकृष्टयं स्वामीव, प्रतिष्ठां च प्रयच्छति ।। १४८ ॥ धर्मः शर्ममहाहवें, धर्मो वर्माऽरिसङ्कटे । धर्मो जाड्याच्छिदाधर्म, धर्मो मर्माविदंहसाम् ॥ १४९ ॥ धर्माञ्जन्तुर्भवेद् भूपो, धर्माद् रामोऽर्धचक्रयपि । धर्माच्चक्रधरो धर्माद, देवो धर्माच्च वासवः ।। १५० ।। १ पात्रम् । २ घृतम् । ३ पुण्याङ्करम् । ४ श्रुतकेवलिसमानाम् । ५ मार्गदर्शकः । ६ शैत्यविच्छेदे धर्मरूपः । ७ बलदेवः । ८ वासुदेवः । ९ चक्रवर्ती । १०
पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
॥१२॥