________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥११॥
श्रुतमुद्दिशतः कांश्चित्, कांश्चित् तदनुजानतः । तत्त्वानि वदतः काश्चित्, तत्राऽद्राक्षीन्मुनीनपि ।। १२४ ॥
॥त्रिभिर्विशेषकम् ।। सोऽवन्दताऽऽचार्यपादान्, साधूनपि यथाक्रमम् । तस्मै ते धर्मलाभं च, ददुः पापप्रणाशनम् ।। १२५ ॥ आचार्यपादपद्मान्ते, राजहंस इवाऽथ सः । निषद्याऽऽसादितानन्द, इति वक्तुं प्रचक्रमे ।। १२६ ।। । तदाऽऽकारयता युष्मान्, भगवन्नात्मना सह । मुधैव सम्भ्रमोऽदर्शि, शरद्गर्जितवन्मया ।। १२७ ।। आरभ्य तद्दिनाद् यूयं, न दृष्य न च वन्दिताः । न चाऽन्नपानवस्त्रायैः, कदाचिदपि सत्कृताः ।। १२८ ।। जाग्रत्सुषुप्तावस्थेन, मया मूढेन किं कृतम् ? । यद् यूयमवजज्ञिध्वे, ध्वस्तस्ववचसा चिरम् ।। १२९ ।। भगवन्तः ! सहध्वं तत्, प्रमादाचरणं मम । सर्वसहा महान्तो हि, सदा सर्वसहीपमाः ।। १३० ।। सूरयोऽप्यूचिरेऽस्माकं, त्वया किं किं न सत्कृतम् ? । दुःश्वापदेभ्यो दस्युभ्यस्त्रायमाणेन वर्मनि ।।१३१ ।। तवैव सार्थिका यच्छन्त्यन्नपानादि चोचितम् । तन्न सीदति नः किञ्चित्, मा विषीद महामते ! ॥ १३२ ।। धनोऽप्यूचे गुणानेव, सन्तः पश्यन्ति सर्वतः । ततो मम सदोषस्याऽप्याराध्यैरेवमुच्यते ॥ १३३ ॥ सर्वथा स्वप्रमादेन, लज्जितोऽस्मि प्रसीदत । साधून् प्रेषयताऽऽहारं, प्रयच्छामीच्छया यथा ।। १३४ ॥ सूरिर्बभाषे योगेन, वर्तमानेन वेत्सि नु । अकृतोऽकारिताऽचित्तमन्नाद्युपकरोति नः ॥ १३५ ॥ तदेव दास्ये साधूनां, यदेवोपकरिष्यते । इत्युदित्वा च नत्वा च, निजावासं ययौ धनः ॥ १३६ ॥ १ तदनुज्ञाकारिणः । २ उपविश्य । ३ आमन्त्रणं कुर्वता । ४ जाग्रताऽपि सुषुप्तावस्थागतेन । ५ पृथ्वी तदुपमा । ६ दुहिंस्रप्राणिभ्यः । ७ चौरेभ्यः । ८ पूज्यैः ।। ९ अकृतं अकारितं अचित्तं चेति एकवद्भावी द्वन्द्वः ।
पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
॥ ११ ॥