________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १० ।।
आज्ञातं सन्ति मे धर्मघोषाचार्याः सहागताः । अकृताऽकारितप्रासुभिक्षामात्रोपजीविनः ।। १११ ।। कन्दमूलफलादीनि, स्पृश्यन्त्यपि न ये क्वचित् । अधुना दुःस्थिते सार्थे, वर्तन्ते हन्त ! ते कथम् ? ॥ ११२ ॥ मार्गकृत्यमुरीकृत्य, पथि यानहमानयम् । तानद्यैव समस्मार्षं, किमकार्षमचेतनः ? ।। ११३ ।। वाङ्मात्रेणाऽपि नो येषामद्य यावत् कृतौचिती । स्वमुखं दर्शयिष्यामि, तेषामद्य कथं न्वहम् ? ॥ ११४ ॥ तथाऽप्यद्याऽपि तान् दृष्ट्वा, निजांहः क्षालयाम्यहम् । सर्वत्राऽपि निरीहाणां, कार्यं तेषां तु किं मया ? ॥ ११५ ॥ इति चिन्तयतस्तस्योत्सुकस्य मुनिदर्शने । तुर्यो यामस्त्रियामयास्त्रियामेवाऽपराऽभवत् ।। ११६ ।। विभातायां विभावर्या, शुचिवस्त्रविभूषणः । सूरीणामाश्रयमगात्, सप्रधानजनो धनः ।। ११७ ॥ पलाशच्छदनच्छन्नं, सच्छिद्रतृणभित्तिकम् । स्थलस्थण्डिलसंस्थानं, तेषां सोऽविशदाश्रयम् ॥ ११८ ॥ मन्थानमिव पापाब्धेः, पन्थानमिव निर्वृतेः । आस्थानमिव धर्मस्य, संस्थानमिव तेजसाम् ॥ ११९ ॥ कषायगुल्मनीहरं, हारं कल्याणसम्पदः । सङ्घस्याऽद्वैतमाकल्पं, कल्पद्धुं शिवकाङ्क्षिणाम् ।। १२० ।। पिण्डीभूतं तप इव, मूर्त्तिमन्तमिवाऽऽगमम् । तीर्थङ्करमिवाऽद्राक्षीद्, धर्मघोषमुनिं धनः ॥ १२१ ॥ त्रिभिर्विशेषकम् ध्यानाधीनात्मनः काश्चित्, कांश्चिन्मौनावलम्बिनः । कायोत्सर्गस्थितान् काश्चित् पठतः कांश्चिदागमम् ॥ १२२ ॥ वाचनां ददतः कांश्चित्, कांश्चिद् भूमिं प्रमार्जतः । वन्दमानान् गुरून् कांश्चित्, कांश्चिद् धर्मकथाजुषः ॥ १२३॥ १ उचिताचरणम् । २ स्वपापम् । ३ रात्र्याः । ४ मथनदण्डम् । ५ सभास्थानम् । ६ हिमम् । ७ भूषणरूपम् ।
प्रथमं पर्व
प्रथमः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते
प्रथमो धनसार्थवाह
भवः ।
।। १० ।।