________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः
सर्गः
॥९
॥
धर्तुं प्रतिपथं पान्थान्, दुर्दैवेन प्रसारिताः । प्रवाहच्छद्मना दीर्घाः, स्वबाहुपरिघा इव ।। ९७ ।। अमज्जन्नभितः पङ्कविकटे शकटाः पथि । चिरं कृतविमर्दोत्थरोषाद् ग्रस्ता इवेलया ।। ९८ ॥ अवरुह्याऽऽकृष्यमाणा, औष्ट्रिकैद्धृतरअभिः । पथि क्रमेलकाः पेतुभ्रंश्यत्पादाः पदे पदे ।। ९९ ॥ दुर्गत्वं वर्त्मनां प्रेक्ष्य, सार्थवाहस्ततो धनः । तस्यामेव महाटव्यां, दत्त्वा वासानवास्थित ।। १०० ॥ अतिवाहयितुं वर्षाश्चक्रे तत्रोटजान् जनः । न हि सीदन्ति कुर्वन्तो, देशकालोचितां क्रियाम् ।। १०१ ॥ दर्शिते माणिभद्रेण, निर्जन्तुजगतीतले । उटजोपाश्रयेऽवात्सुः, सूरयोऽपि ससाधवः ।। १०२ ।। भूयस्त्वात् सार्थलोकस्य, दीर्घत्वात् प्रावृषोऽपि च । अत्रुट्यत् तत्र सर्वेषां, पाथेययवसादिकम् ।। १०३ ।। ततश्चेतस्ततश्चेलुः, कुचेलास्तापसा इव । खादितुं कन्दमूलादि, क्षुधार्ताः सार्थवासिनः ।। १०४ ।। अथ तत् सार्थनाथस्य, सार्थदौःस्थ्यमशेषतः । विज्ञप्तं माणिभद्रेण, तन्मित्रेण निशामुखे ।। १०५ ।। सार्थवाहः सार्थदुःखचिन्तासन्ताननिश्चलः । तस्थौ निवातनिष्कम्प, इव पाथोनिधिस्ततः ।। १०६ ।। तस्य चिन्ताप्रपन्नस्य, निद्राऽभूत् क्षणमात्रतः । अतिदुःखाऽतिसौख्ये हि, तस्याः प्रथमकारणम् ।। १०७ ।। यामिन्याश्चरमे यामे, मन्द्रायामपालकः । ततश्च कश्चिदप्येवमपाठीदशठाशयः ।। १०८ ॥ प्रत्याशं विस्फुरत्कीर्तिः, प्राप्तोऽपि विषमां दशाम् । स्वामी नः पालयत्यात्मप्रतिपन्नमसावहो ! ।।१०९ ॥ तदाकर्ण्य धनो दध्यावुपालब्धोऽस्मि केनचित् । अस्तीह मामके साथै, को नामाऽत्यन्तदुःस्थितः ? ।।११०॥ १ स्वबाहुरूपार्गला इव । २ भूम्या । ३ उष्ट्रास्पद्वैः । ४ समुद्रः । ५ वाजिशालाप्राहरिकः ।
श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते प्रथमो धनसार्थवाहभवः।
॥९॥