________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ८ ॥
जिह्वामकर्षन् महिषा, निःश्वासप्रेरितामिव । विविशुश्च नदीपङ्केष्ववधीरितकाहराः ।। ८३ ।। रथिकान वमत्यापि, प्राजेनेषु पतत्स्वपि । उन्मार्गपादपानीयुरुक्षणाश्च क्षणे क्षणे ॥ ८४ ॥ तप्तायःसूचीसदृशै, रोचिर्भिश्चण्डरोचिषः । व्यलीयन्त शरीराणि, विष्वग् मदनपिण्डवत् ॥ ८५ ॥ तप्तायः फालकरैणिं, तरेणिर्नितरां दधौ । पथि क्षिप्तकरीषाग्निवैषम्यं पांशवोऽवहन् ॥ ८६ ॥ प्रविश्य मार्गसरितः, परितः सार्थयोषितः । उन्मूल्य नलिनीनालान्, गलनालेषु चिक्षिपुः ॥ ८७ ॥ घर्माऽम्भःक्लिन्नवासोभिरशोभन्त भृशं पथि । जलार्द्रा इव बिभ्रत्यः, सार्थपान्थपुरन्ध्रयः ॥ ८८ ॥ पलाशतालहिन्तालनलिनीकदलीदलैः । तालवृन्तीकृतैः पान्याश्चिच्छिदुर्घर्मजं श्रमम् ॥ ८९ ॥ ग्रीष्मस्येव स्थितिच्छेदं, गतिच्छेदं प्रवासिनाम् । विदधानः समागच्छन्मेघचिह्नमृतुस्ततः ॥ ९० ॥ यातुधान इवाऽऽकाशे, दधानो धन्व वारिदः । कुर्वन् धाराशरासारं, सार्थेनोब्रासमैक्ष्यत ।। ९१ ।। अलातमिव तडितं, तडित्वान् भ्रमयन् मुहुः । निर्भरं भापयामास, पथिकान् बालकानिव ।। ९२ ॥ अभ्रंलिहैः पयः पूरैः, कूलिनीनां प्रसारिभिः । कूलानि पान्थहृदयानीव सद्यो विदद्रिरे ।। ९३ ।। सलिलैर्नीचमुच्चं च, सर्वमुर्व्यां समीकृतम् । जडानामुदये हन्त !, विवेकः कीदृशो भवेत् ? ।। ९४ । पयोभिः कण्टकैः पङ्कैकैर्दुर्गमत्वेन वर्त्मनः । योजनानां शतमिव, क्रोशोऽपि समजायत ।। ९५ ।। अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव, प्रचचाल शनैः शनैः ।। ९६ ।।
१ तिरस्कृतकशाविशेषाः । २ "परोणी" इति भाषायाम् । ३ सूर्यस्य । ४ सदृशम् । ५ सूर्यः । ६ स्त्रियः । ७ राक्षसः । ८ प्रज्वत्काष्ठम् । ९ मेघः । १० अत्र डलयोरैक्यात् जलानामित्यपि वक्तव्यम् ।
प्रथमं पर्व प्रथमः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते
प्रथमो धनसार्थवाह
भवः ।
112 11