________________
त्रिषष्टिशलाकापुरुषचरिते
॥७
॥
यूनामन्तर्निविष्टानां, तत्र क्रीडानिबन्धनम् । जङ्गमानीव वेश्मानि, शकटानि चकासिरे ।। ६९ ।। महाकाया महास्कन्धा, महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा, जनानां चिच्छिदुस्तृषम् ।। ७० ॥ * तदा तद्भाण्डसम्भारभाराक्रान्ता समन्ततः । शकटश्रेणिचीत्कारै, ररासेव वसुन्धरा ।। ७१ ॥ औक्षकेणौष्ट्रकेणाऽऽश्वेनोद्भूतः पांशुरानशे । तथा दिवं यथा विष्वक्, सूचीभेद्यं तमोऽभवत् ।। ७२ ।। उक्ष्णां घण्टाटणत्कारैर्बधिरीकृतदिङ्मुखैः । चमर्यस्तत्रसुर्दूरादुत्कर्णास्तर्णकैः समम् ।। ७३ ॥ महाभार वहन्तोऽपि, क्रामन्तोऽपि क्रमेलकाः । वलितग्रीवमग्राणि, भूरुहां लिलिहुर्मुहुः ।। ७४ ॥ उत्कर्णसरलग्रीवा, दशन्तो दशनैर्मिथः । पृष्ठप्रतिष्ठकण्ठालाः, प्रष्ठा एवाऽभवन् खराः ॥७५ ।। आरक्षकैः प्रतिदिशं, वेष्टितः शस्त्रपाणिभिः । वज्रपञ्जरमध्यस्थ, इव सार्थोऽवहत् पथि ।। ७६ ।। महार्थस्यापि सार्थस्य, दूरेऽस्थुस्तस्य दस्यवः । महाघमौलिरत्नस्य, भुजङ्गमपतेरिव ।। ७७ ।। निःस्वाऽऽठ्ययोर्निर्विशेष, योगे क्षेमे च सोद्यमः । धनः सर्वान् सहाऽनैषीद्, यूथेशः कलभानिव ॥७८ ॥ आशास्यमानः सकलैर्लोकैः स्फारितलोचनैः। दिने दिने रविरिव, प्रयाणमकरोद् धनः ॥७९ ॥ सरसां सरितां चाऽपस्तनूकुर्वन् निशा इव । उद्दामः समभूत् पान्थभीष्मो ग्रीष्मऋतुस्तदा ।। ८० ॥ भ्राष्ट्रमिन्धा इव ववुर्वायवोऽत्यन्तदुःसहाः । आतपं तपनस्तेने, विष्वग् वह्निच्छटोपमम् ।। ८१ ।। तत्सार्थपथिकास्तस्थुरनुपातं तरुं तरुम् । प्रपां प्रपा प्रवेशं च, पायं पायं पयोऽलुठन् ।। ८२ ।। १ लघुवत्सकैः । २ उष्ट्राः । ३ निर्धन धनाढ्ययोः । ४ अप्राप्तस्य प्राप्त्युपायो योगः । ५ प्राप्तस्य रक्षणं क्षेमः । ६ लघुगजान् । ७ सूर्यः ।
| प्रथम पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
॥ ७॥