________________
त्रिषष्टिशलाकापुरुषचरिते
॥६॥
आचार्याणां कृतेऽमीषामन्नपानाधमन्वहम् । सम्पादनीयं युष्माभिः, सूदानित्यादिशच्च सः ।। ५५ ।। आचार्या अप्यवोचन्त, यतीनामशनादिकम् । अकृतं चाऽकारितं चाऽसङ्कल्प्यं चापि कल्पते ।। ५६ ।। वापीकूपतडागादिगतं वार्यपि वार्यते । अशस्त्रोपहतं सार्थनाथ ! जैनेन्द्रशासने ।। ५७ ।। अत्रान्तरे च केनापि, सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं, भ्रष्टसन्ध्याभ्रसन्निभम् ॥५८ ॥ प्रमोदमेदुरमना, निजगाद ततो धनः । फलान्यमूनि गुह्णीताऽनुगृह्णीत च मामिति ।। ५९ ॥ सूरिरूचे फलादीदृगशस्त्रोपहतं हि नः । न स्प्रष्टुमपि कल्पेत, किं पुनः श्राद्ध ! खादितुम ? ॥६० ।। धनोऽवोचदहो ! काऽपि, दुष्करव्रतकारिता । शक्यं दिनमपीदृक्षैर्भवितुं न प्रमादिभिः ॥ ६१ ।। कल्प्यं वः स्याद् यदन्नादि, तद् दास्यामि प्रसीदत । चलताऽद्येत्युदित्वा तान्, नत्वा च व्यसृजन्मुनीन् ।। ६२ ।। सार्थवाहस्ततोऽचालीत्, चञ्चलैस्तुरगैर्मयैः । शकटैरुक्षभिस्तुङ्गैस्तरहैरिव सागरः ।। ६३ ॥ अथ प्रचेलुराचार्या, अपि साधुभिरावृताः । मूर्त्ततामाश्रितैर्मूलगुणोत्तरगुणैरिव ।। ६४ ॥ सार्थस्याऽग्रे धनः पृष्ठे, माणिभद्रः सखाऽस्य तु । ईयतुः पार्श्वयोस्त्वश्ववारवाराववारितौ ।। ६५ ।। श्वेतच्छत्रैः स चक्रे यां, शरदभ्रमयीमिव । मायूरैरातपत्रैश्च, प्रावृडब्दमयीमिव ।। ६६ ॥ करभैः सैरिभैरुक्षवरैरश्वतरैः खरैः । तस्योहे दुर्वहं भाण्डं, घनवातैरिव क्षितिः ।।६७ ।। वेगादलक्ष्यमाणाङ्घिपाता वातमजा इव । ययुः पार्श्वस्थगोणीभिरुत्पक्षा इव वेसराः ॥६८ ।। १ अप्रासुकम् । २ उष्ट्रैः । ३ बलिष्ठवृषभैः । ४ उट्रैः । ५ महिषैः । ६ घनवाताः पृथ्व्याधारभूता वातविशेषाः । ७ पवनाभिमुखचारिणो मृगविशेषाः ।
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
॥६॥
८खचराः ।