________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ५ ॥
अश्वैरश्वतरैरुष्ट्रैर्वाहनैरपरैरपि । तस्य वेश्म व्यराजिष्ट, यादोभिरिव सागरः ॥ ४१ ॥ धनिनां गुणिनां कीर्तिशालिनां च नृणामसौ । धुर्यत्वं धारयामास, प्राणोऽङ्गमरुतामिव ।। ४२ ।। अर्थैस्तस्य महार्थस्य, पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ॥ ४३ ॥ स गृहीतमहाभाण्ड, उत्साह इव मूर्तिमान् । ईहाञ्चक्रेऽन्यदा गन्तुं वसन्तपुरपत्तनम् ॥। ४४ ।। सार्थवाहो धनस्तस्मिन्, सकलेऽपि पुरे ततः । डिण्डिमं ताडयित्वोच्चैः, पुरुषानित्यघोषयत् ॥ ४५ ॥ असौ धनः सार्थवाहो, वसन्तपुरमेष्यति । ये केऽप्यत्र यियासन्ति, ते चलन्तु सहाऽमुना ।। ४६ । भाण्डं दास्यत्यभाण्डायाऽवाहनाय च वाहनम् । सहायं चाऽसहायायाऽशम्बलाय च शम्बलम् ॥ ४७ ॥ दस्युभ्यस्त्रास्यते मार्गे, श्वापदोपद्रवादपि । पालयिष्यत्यसौ मन्दान्, सहगान् बान्धवानिव ।। ४८ ।। क्षणे स कल्यः कल्याणे, कुलस्त्रीकृतमङ्गलः । रथमास्थाय विदधे, प्रस्थानं पत्तनाद् बहिः ।। ४९ ।। प्रस्थानभेरीभाङ्कारैराकौरकनरैरिव । जनाः सर्वेऽपि तत्रेयुर्वसन्तपुरगामिनः ।। ५० ।। अत्रान्तरे धर्मघोष, आचार्य साधुचर्यया । धर्मेण पावयन् पृथ्वीं, सार्थवाहमुपाययौ ।। ५१ ।। ससम्भ्रममथोत्थाय, धनो दीप्रं तपस्त्विषा । सहस्रांशुमिवाऽऽचार्यमवन्दत कृताञ्जलिः ।। ५२ ।। धनेन पृष्टास्त्वाचार्याः, समागमनकारणम् । वसन्तपुरमेष्यामस्त्वत्सार्थेनेत्यचीकथन् ।। ५३ ।। सार्थवाहोऽप्युवाचैवं धन्योऽद्य भगवन्नहम् । अभिगम्या यदायाता, मत्सार्थेन च यास्यथ ॥ ५४ ॥ १ खचरैः । २ जलजन्तुभिः । ३ अङ्गमरुतां - अङ्गान्तर्गतसर्ववायूनां मध्ये प्राणो नाम वायुर्यथा धुर्यत्वं धारयामास तथा । ४ क्षुद्रप्रवाहैः । ५ पाथेयम् । ।। ६ नीरोगी । ७ आह्वानकारकैः । दीप्तं आ ॥ ८ सूर्यमिव ।
प्रथमं पर्व
प्रथमः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभवचरिते
प्रथमो धनसार्थवाह
भवः ।
114 11