SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् । ॥ ४ ॥ एषां तीर्थकृतां तीर्थेष्वासन द्वादश चक्रिणः । नवाऽर्धचक्रिणो रामास्तथा प्रत्यर्धचक्रिणः ।। २७ ॥ एते शलाकापुरुषा, भूतभाविशिवश्रियः । त्रिषष्टिरवसर्पिण्यां, भरतक्षेत्रसम्भवाः ।। २८ ।। एतेषां चरितं ब्रूमः, शलाकापुंस्त्वशालिनाम् । महात्मनां कीर्तनं हि, श्रेयोनिःश्रेयसास्पदम् ।। २९ ।। तत्र तावद् भगवतश्चरित्रमृषभप्रभोः । बोधिबीजावाप्तिहेतोर्भवादारभ्य वर्ण्यते ।। ३० ।। अस्त्यसङ्ख्याम्बुधिद्वीपवलयैः परिवेष्टितः । जम्बूद्वीप इति द्वीपो, वज्रवेदिकयाऽऽवृतः ।। ३१ ।। भूषितस्य संवन्तीभिर्वेषैर्वर्षधरैरपि । स्वर्णरत्नमयो मेरुर्मध्ये तस्याऽस्ति नाभिवत् ।। ३२ ॥ स लक्षयोजनोच्छ्रायो, मेखलात्रयभूषितः । चत्वारिंशद्योजनोच्चचूलोऽर्हच्चैत्यमण्डितः ।। ३३ ॥ अस्ति पश्चिमतस्तस्य, विदेहेषु महापुरम् । क्षितिप्रतिष्ठितं नाम, क्षितिमण्डलमण्डनम् ।। ३४ ।। तत्र प्रसन्नचन्द्रोऽभूनिस्तन्द्रो धर्मकर्मसु । देवराजोपमो राजा, राजमानो महर्द्धिभिः ॥ ३५ ॥ तत्र चाऽऽसीत् सार्थवाहो, धनो नाम यशोधनः । आस्पदं सम्पदामेकं, सरितामिव सागरः ॥३६ ।। आसंस्तस्य महेच्छस्याऽनन्यसाधारणाः श्रियः । परोपकारैकफला, रुचो हिमरुचेरिव ।। ३७ ॥ सदा सदाचारनदीप्रवाहैकमहीधरः । सेवनीयो न कस्याऽऽसीत्, स महीतलपावनः ? ॥३८ ।। तस्मिन्नौदार्यगाम्भीर्यधैर्यप्रभृतयो गुणाः । आसन बीजान्यमोघानि, प्रभवाय यशस्तरोः ।।३९ ।। कणानामिव रत्नानामुत्करास्तस्य वेश्मनि । गोणीनामिव देवाङ्गवाससामपि राशयः ।। ४० ॥ पूर्वभवचरिते प्रथमो धनसार्थवाहभवः । ।। ४ ।। १ नदीभिः । २ क्षेत्रैः । ३ कुलपर्वतैः । ४ आलस्यरहितः । ५ इन्द्रतुल्यः । ६ स्थानम् । ७ चन्द्रस्य । ८ राशयः ।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy