________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३॥
सत्त्वानां परमानन्दकन्दोद्भेदनवाम्बुदः । स्याद्वादामृतनिस्यन्दी, शीतलः पातु वो जिनः ।। १२ ।। भवरोगातजन्तूनामगदवारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥ १३ ॥ विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥ विमलस्वामिनो वाचः, कतकक्षोदसोदराः । जयन्ति त्रिजगच्चेतोजलनैर्मल्यहेतवः ।। १५ ॥ स्वयम्भूरमणस्पर्डी, करुणारसवारिणा । अनन्तजिदनन्तां वः, प्रयच्छतु सुखश्रियम् ।। १६ ।। कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् । चतुर्धा धर्मदेष्टरं, धर्मनाथमुपास्महे ।। १७ ।। सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः । मृगलक्ष्मा तमःशान्त्यै, शान्तिनाथजिनोऽस्तु वः ॥ १८॥ श्रीकुन्थुनाथो भगवान्, सनाथोऽतिशयर्द्धिभिः । सुराऽसुरनृनाथानामेकनाथोऽस्तु वः श्रिये ।। १९ ।। अरनाथः स भगवांश्चतुर्थाऽरनभोरविः । चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः ॥२०॥ सुराऽसुरनराधीशमयूरनववारिदम् । कर्मद्रून्मूलने हस्तिमल्लं मल्लिमभिष्टुमः।। २१ ।। जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ।। २२ ।। लुठन्तो नमतां मूर्ध्नि, निर्मलीकारकारणम् । वारिप्लेवा इव नमः, पान्तु पादनखांशवः ।। २३ ॥ यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । अरिष्टनेमिर्भगवान्, भूयाद् वो रिष्टनाशनः ॥२४ ।। कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः ।। २५ ।। कृतापराधेऽपि जने, कृपामन्थरतारयोः । ईषद्बाष्पार्द्रयोर्भद्रं, श्रीवीरजिननेत्रयोः ॥२६ ।। १ कतकचूर्णसमानाः । २ मोक्षलक्ष्मीविलासम् । ३ जलप्रवाहाः ।
पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
॥३॥