________________
प्रथमः सर्ग: ।
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२॥
सकलार्हत्प्रतिष्ठानमधिष्ठानं शिवश्रियः । भूर्भुवःस्वस्त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥ १ ॥ नामा-5ऽकृति-द्रव्य-भावैः, पुनतस्त्रिजगद्रज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ।। २ ।। आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभस्वामिनं स्तुमः ।। ३ ।। अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलादर्शसङ्क्रान्तजगतं स्तुवे ।। ४ ।। विश्वभव्यजनारामकुल्यातुल्या जयन्ति ताः । देशनासमये वाचः, श्रीसम्भवजगत्पतेः ।। ५ ।। अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं, भगवानभिनन्दनः ।।६।। धुसत्किरीटशाणाग्रोत्तेजिताघ्रिनखावलिः । भगवान् सुमतिस्वामी, तनोत्वभिमतानि-वः ॥७॥ पद्मप्रभप्रभोर्देहभासः पुष्णन्तु वः शिवम् । अन्तरङ्गारिमथने, कोपाटोपादिवाऽरुणाः ॥ ८ ॥ श्रीसुपार्श्वजिनेन्द्राय, महेन्द्रमहिताङ्घ्रये । नमश्चतुर्वर्णसङ्घगगनाभोगभास्वते ।।९।। चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्ज्वला । मूर्तिर्मूर्त्तसितध्याननिर्मितेव श्रियेऽस्तु वः ॥ १०॥ करामलकवद् विश्वं, कलयन् केवलश्रिया । अचिन्त्यमाहात्म्यनिधिः, सुविधिर्बोधयेऽस्तु वः ॥ ११ ॥
पूर्वभवचरिते प्रथमो धनसार्थवाहभवः ।
१ त्रिभुवनाधीशम् । २ चित्तैकाग्येण नमस्कुर्महे । ३ सेवां कुर्महे । ४ अम्लानो यः केवलज्ञानरूप आदर्शस्तस्मिन् सङक्रान्तानि जगन्ति यस्य स तम् । ५ समग्रभव्यजन एव आरामस्तस्मिन् सारणिसमानाः । ६ कोपाडम्बरात् ।७ करस्थितनिर्मलजलवत् ।