________________
॥३३॥
सुभाषितम् ।
पृष्ठ क्र. कर्पूरभाण्डे को नाम लवणं विनिवेशयेत् ? व्याधेरन्यस्य न ह्यन्यदौषधं जातु शान्तिकृत् । न ह्यज्ञातस्य रोगस्य चिकित्सा जातु युज्यते । अन्यानुभूतं न ह्यन्यो जनो जानाति जातुचित् । अस्वातन्त्र्यं कुलस्त्रीणां धर्मो नैसर्गिको यतः । नयज्ञा हि प्रस्तुतार्थेषु तत्पराः । प्रव्रज्या दीपिकेवाऽऽत्तमात्राऽपि हि तमश्छिदे । एकचिन्ताविपन्नानां गतिरेका हि जायते । कायानपेक्षा हि मुमुक्षवः । ब्राह्मणजातिरद्विष्टो वणिग्जातिरवञ्चकः । प्रियजातिरनीर्ष्यालुः, शरीरी च निरामयः ।। ५३ विद्वान् धनी गुण्यगर्वः स्त्रीजनश्चापचापलः। राजपुत्रः सुचरित्रः, प्रायेण न हि दृश्यते ।। विचिकित्सन्ति न हि जातु चिकित्सकाः । योग्यमुग्रस्य हि व्याधेः शान्त्यामत्युग्रमौषधम् । सर्वत्राऽद्रोहिता सताम् । न वज्रपञ्जरेऽप्यस्ति स्थानं रुष्टे बलीयसि । अधमं स्थानमधमानां हि युज्यते । न हि मोहो महात्मनाम् । न सामान्यफलं तपः । अच्यवनं न हि मोक्षं विना क्वचित् ।
॥३३॥