________________
पृष्ठ क्र. ३०
॥३२॥
सुभाषितम् । वीणायां वाद्यमानायां वेदोद्गारो न राजते । प्रत्यक्षेऽपि प्रमाणे किं प्रमाणान्तरकल्पना ? पूर्वोपार्जितपुण्यानां फलमप्रतिघं खलु । पुण्यच्छेदेऽथवा सर्व प्रयाति विपरीतताम् । अनुकूलनिदेशो हि सतामुत्साहकारणम् । कीदृशं कूपखननं सद्यो लग्ने प्रदीपने । आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः । धीराः प्राणावसानेऽपि, न हि यान्तीदृशीं (शोच्या) दशाम् । प्राणान्तः सुसहः कान्ताविरहस्तु सुदुःसहः । प्रायेण हि दरिद्राणां शीघ्रगर्भभृतः स्त्रियः । जन्तोर्वजाहतस्यापि मृत्यु ऽत्रुटितायुषः । तीर्थानि सर्वसाधारणानि यत् । कटुतुम्ब्या पक्वमपि फलमश्नाति कोऽथवा । अन्ते या मतिः सा गतिः किल । तापे रत्यै छाया हि जायते । आसन्ने व्यसने लक्ष्म्या लक्ष्मीनाथोऽपि मुच्यते । प्रकृतिव्यत्ययः प्रायो भवत्यन्ते शरीरिणाम् । भाविकार्यानुसारेण वागुच्छलति जल्पताम् । नाऽलभ्यं लभ्यते क्वचित् ।
॥३२॥