________________
पृष्ठ क्र.
॥३१॥
प्रथमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । महात्मनां कीर्तनं हि श्रेयोनिःश्रेयासास्पदम् । जडानामुदये हन्त विवेको कीदृशो भवेत् । न हि सीदन्ति कुर्वन्तो देशकालोचितां क्रियाम् । अतिदुःखाऽतिसौख्ये हि तस्याः (निद्रायाः) प्रथमकारणम् । सर्वसहा महान्तो हि सदा सर्वसहोपमा । धीमन्तो ह्याशुकारिणः । भवन्ति हि महात्मानो गुर्वाज्ञाभङ्गभीरवः । नीयन्ते यत्र तत्रैते यान्ति सारणिवन्नृपाः । नीचाः स्वार्थकतत्पराः कुसंसर्गात् कुलीनानां भवेदभ्युदयः कुतः । कदली नन्दति कियद् ? बदरीतरुसन्निधौ । निर्धर्मेण नरेण किं ? यदाहार इवोद्गारैर्गिरा भावोऽनुमीयते । स्वार्थभ्रंशो हि मूर्खता । कारणस्यानुरूपं हि कार्य जगति दृश्यते ।
०
॥३१॥