________________
पृष्ठ क्र. ५६ ५७
॥३४॥
सुभाषितम् । स्नेहः प्राग्भवसम्बद्धे ह्यनुबध्नाति बन्धुताम् । प्रादुर्भवन्ति महतां स्वयमेव यतो गुणाः । आत्मानुरूपः कर्तव्य सारथिर्हि महारथैः । सम्पद्धि पुण्यमानेनाऽम्भोमानेनेव पद्मिनी । भृत्याः स्वाम्यनुगामिनः । चित्रा हि श्रुतसंपदः । मुमुक्षवो निराङ्काक्षा, वस्तूषूपस्थितेष्वपि । कार्यकृद्गृह्यको जनः । प्रजा राजानुयायिनी। व्याघ्रा अपि पलायन्ते, ज्वलज्ज्वलनदर्शनात् । अजयं पङ्कजिन्या हि, राजहंसस्य युज्यते । कार्य सपौरुषेणापि, वणिजा न हि पौरुषम् । वणिजो लोकसामान्येऽप्यर्थे साशङ्कवृत्तयः । मन्दभाग्यतया पुंसां, गुरवो स्युरनीदृशाः । कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लध्यते । खला सर्वकषा खलु । एकत्र विनिवेशेऽपि, काचः काचो मणिमणिः । दुर्लक्षा हि पराशयाः । विपरीतं न शकन्ते, कदाऽपि सरलाशयाः ।
||३४||