________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३४५ ।।
तिष्ठन् गच्छन् स्वपन जाग्रद्, बहिर्मध्ये दिवा निशि । दध्यौ स प्रभुमेवार्थ, हतार्थ इव तद्धनः ।।६८४ ।। अप्यन्यहेतुनाऽऽयातानष्टापदतलान्नरान् । प्रभुं प्रथयतः पूर्वं, स पूर्ववदमन्यत ।। ६८५ ।। आदौ पशुवदज्ञानं, व्यवहारनये जनम् । इमं प्रवर्त्तयामास, गृहवासस्थितोऽपि यः ॥ ६८६ ॥ आत्तदीक्षश्च भगवानचिरोत्पन्नकेवलः । उद्दिधीर्षुर्भवाम्भोधेर्धर्मे प्रावर्त्तयज्जगत् ।। ६८७ ॥ कृतकृत्यः स्वयं कृत्वा, कृतकृत्यान् जनानपि । यः पदं परमं प्राप, तं कथं नाम शोचसि ? ।। ६८८ ॥ शोकाकुलः कुलामात्यैः, कथञ्चिदपि बोधितः । शनकै राजकार्येषु, प्रावर्त्तत महीपतिः ।। ६८९ ॥
॥चतुर्भिः कलापकम् ।। शनैः शनैः शोकमुक्तो, राहुमुक्त इवोडुपः । बहिर्विहारभूमिषु, विचचार नरेश्वरः ।। ६९० ॥ स्वामिपादानसौ स्मृत्वा, गजो विन्ध्यस्थलीमिव । विषदन्नेत्याऽऽप्तजनैः, सदाऽऽसन्नैर्व्यनोद्यत ।। ६९१ ॥ परिवारानुरोधेन, कदाऽप्यारामवीथिषु । विनोदोत्पत्तिभूमिषु, जगाम जगतीपतिः ।। ६९२ ।। स्त्रीराज्येनेवाऽऽगतेन, समं स्त्रैणेन तत्र च । लतामण्डपशय्यासु, रेमे रम्यासु भूपतिः ।। ६९३ ॥ कुसुमाहरणां विद्याधराणामिव तत्र सः । कुसुमावचयक्रीडां, यूनामैक्षिष्ट कौतुकात् ।। ६९४ ।। ग्रथित्वा पुष्पनेपथ्यं, वरवामध्रुवः स्वयम् । प्रसूनधन्वनः पूजामिव तस्योपनिन्यिरे ।। ६९५ ॥ सर्वाङ्गपुष्पाभरणाश्चिक्रीडुस्तत्पुरोऽङ्गनाः । ऋतुश्रिय इवाऽसङ्ख्यीभूतास्तं समुपासितुम् ॥ ६९६ ।। रराज राजराजोऽपि, सर्वतः पुष्पभूषणः । तासामृतुदेवतानामिवैकमधिदैवतम् ।। ६९७ ॥ १ कृपणः । २ उद्धर्तुमिच्छुः । ३ आगत्य । ४ स्त्रीसमूहेन । ५ कामदेवस्य ।
भरतस्य भोगाः ।
॥३४५ ।।