________________
त्रिषष्टिशलाकापुरुषचरिते
।। ३४६ ।।
कदाचित् क्रीडितुं क्रीडादीर्घिकां सवधूजनः । राजहंस इव स्वैरं प्रययौ भरतेश्वरः ।। ६९८ ।। तत्र चक्रे जलक्रीडां, वामनेत्राभिरार्षभिः । करेणुकाभिः सहितो, रेवायामिव कुञ्जरः ।। ६९९ ।। आलिङ्गन्त्यः क्षणं कण्ठे, क्षणं दोष्णोः क्षणं हृदि । तमापेतुः पयोवीच्यो, वामाक्षीशिक्षिता इव ।। ७०० ।। अवतंसीकृताम्भोजश्चलन्मौक्तिककुण्डलः । भरतो वरुणः साक्षादिवाऽलक्ष्यत वारिणि ।। ७०१ ।। लीलाविलाससाम्राज्यनिवेशायेव भूपतिः । अहंपूर्विकया स्त्रीभिरभ्यषिच्यत वारिभिः ।। ७०२ ।। अप्सरोभिरिव जलदेवताभिरिवाऽभितः । जलकेलिप्रसक्ताभी, रेमे ताभिर्महीपतिः ।। ७०३ ।। स्वप्रतिस्पर्द्धिनां वारिजन्मनामिव दर्शनात् । वारिभिस्ताम्रतामापुः, कुरङ्गकदृशां दृश: ।। ७०४ ॥ अङ्गनानामङ्गरागैरङ्गाद् विगलितैर्घनैः । आपः सकर्दमा यक्षकर्दमत्वं प्रपेदिरे ।। ७०५ ।। सङ्गीतकं कारयितुं, कदाचिदपि शक्रवत् । विलासमण्डपास्थानमातस्थौ पृथिवीपतिः ।। ७०६ ॥ ॐकारमिव मन्त्राणामाद्यं सङ्गीतकर्मणाम् । सुस्वरं पूरयामासुर्वेणुं वैणविकोत्तमाः ॥ ७०७ ॥ पुष्पादिभिः श्रुतिसुखैर्व्यक्तैर्व्यञ्जनधातुभिः । वैणिका वादयामासुर्वीणा एकादशाऽपि ताः ॥ ७०८ ॥ तत्तत्कवित्वानुगतं, नाम्ना प्रस्तारसुन्दरम् । रङ्गाचार्या दधुस्तालं, नृत्ताभिनयमातरम् ।। ७०९ ॥ प्रियमित्रवदन्योऽन्यमनुज्झन्तो मनागपि । मार्दङ्गिकाः पाणविकाः, स्वं स्वं वाद्यमवादयन् ॥ ७१० ॥ जातिरागान् नवनवान्, स्वरगीतिमनोरमान् । गायनाश्च जगुर्हाहाहूह्वहङ्कारहारिणः ।। ७११ ।। १ नर्मदायाम् । २ भुजयोः । ३ जलदेवः । ४ कमलानाम् । नानाप्र । ५ सूत्रधाराः । ६ मृदङ्गचादकाः । ७ पणववादकाः ।
464
प्रथमं पर्व षष्ठः भर्गः
श्रीऋषभस्वामिचरितम् ।
भरतस्य
भोगाः ।
।। ३४६ ।।