________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३४४ ॥
विश्वसेनकुलोत्तंसाऽचिरादेवीतनूद्भव! । श्रीशान्तिनाथ ! भगवन् !, भव नः कर्मशान्तये ।। ६६९ ।। सूरान्वयवियत्सूर!, श्रीराज्ञीकुक्षिसम्भव ! । कुन्थुनाथ ! जगन्नाथ !, जयोन्मथितमन्मथ ! ।। ६७० ॥ देवीशरच्छ्रीकुमुद !, सुदर्शननृपात्मज ! । अरनाथ ! वितर मे, भवोत्तरणवैभवम् ।।६७१ ।। कुम्भाम्भोधिसुधाकुम्भ !, प्रभावत्यङ्गसम्भव ! । कर्मक्षयमहामल्ल !, मल्लिनाथ ! शिवं दिश ।। ६७२ ।। सुमित्रहिमवत्पद्महूद ! पद्मावतीसुत ! । मुनिसुव्रततीर्थेश !, नमस्ते परमेश्वर ! ।। ६७३ ।। वप्रावज्राकरमहीवज्र ! श्रीविजयात्मज! । जगन्नमस्यपादाब्ज!, नमस्तुभ्यं नमिप्रभो ! ।।६७४ ।। शिवगामिन् ! शिवासूनो !, समुद्रानन्दचन्द्रमः ! । अरिष्टनेमे ! भगवन् !, नमः कारुणिकाय ते ॥ ६७५ ॥2
अश्वसेनावनीपालकुलचूलामणे ! प्रभो ! । वामासूनो ! नमस्तुभ्यं, श्रीमत्पार्श्वजिनेश्वर ! ।। ६७६ ।। सिद्धिसम्प्राप्तिसिद्धार्थ !, सिद्धार्थनृपनन्दन! । त्रिशलाहृदयाश्वास !, श्रीवीर ! भवते नमः ।। ६७७ ॥ ॥2 इति स्तुत्वा नमस्कृत्य, सर्वान् प्रत्येकमर्हतः । चैत्यात् सिंहनिषद्याया, निर्ययौ भरतेश्वरः ॥ ६७८ ॥ विलोकयन् वलद्ग्रीवं, तच्चैत्यं प्रियमित्रवत् । उत्तताराऽष्टापदाद्रेर्भरतः सपरिच्छदः ।। ६७९ ।। प्राग्विलग्नमना लग्नवस्त्राञ्चल इवाऽचलत् । मन्दं मन्दं प्रत्ययोध्यमयोध्याधिपतिस्ततः ।।६८० ॥ सैन्योद्भूतै रजःपूरैः, शोकपूरैरिवाऽऽकुलाः । दिशोऽपि कुर्वन् शोकातस्तां पुरी प्राप भूपतिः ।। ६८१ ।। तद्दुःखदुःखितैर्बाढं, सोदरैरिव नागरैः । सास्रदृग्भिर्दश्यमानो, विनीतां प्राविशन्नृपः ।। ६८२ ।। स्मारं स्मारं स्वामिपादान्, वृथ्शेष इवाऽम्बुदः । सोऽस्राम्बुविप्रुषो वर्षन्, स्वं विवेश निवेशनम् ।। ६८३ ।। १ सूरवंशगगनसूर्य । २ देवीशरलक्ष्मीकुमुद ! । ३ सुमित्रहिमाचलपद्मनद ! | ४ अश्रुजलबिन्दून् ।
भरतस्य स्वगृहे गमनं, शोकापनोदश्च ।
॥३४४ ।।