________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः |श्रीऋषभस्वामिचरितम् ।
॥३४१ ॥
कर्पूरागरुकस्तूरीधूपधूमैश्च सन्ततैः । कालिन्द्येव कलिन्दाद्रि, प्लाव्यमानमहर्निशम् ॥ ६२५ ।। अप्सरोगणसङ्कीर्ण, द्योः पालकमिवाऽऽगतम् । वैताट्यमेखलाखण्डमिव विद्याधरीवृत्तम् ।। ६२६ ।। अग्रतः पार्श्वतः पश्चाच्चारुभिश्चैत्यपादपैः । माणिक्यपीठिकाभिश्च, भूषणैरिव भूषितम् ।। ६२७ ॥ अष्टापदाद्रेर्मूर्धन्यमिव माणिक्यभूषणम् । नन्दीश्वरादिचैत्यानां, स्पर्द्धयेवाऽतिपावनम् ।। ६२८ ॥ तच्चैत्यं भरतस्याऽऽज्ञातुल्यकालं कलाविदा । तेन वर्द्धकिरत्नेन, व्यधीयत यथाविधि ।। ६२९ ।।
॥षोडशभिः कुलकम् ।। तत्रैव कारयामास, दिव्यरत्नशिलामयीः । भ्रातृणां, नवनवतेः, प्रतिमा भरतेश्वरः ।। ६३० ॥ शुश्रूषमाणां प्रतिमामात्मनोऽपि महीपतिः । कारयामास तत्रैव, स हि भक्तेरतृप्तिकः ।। ६३१ ।। चैत्याद् बहिर्भगवतः, स्तूपमेकमकारयत् । भ्रातॄणां शतमेकोनं, स्तूपांश्च भरतेश्वरः ।। ६३२ ॥ अत्र माऽऽशातनां कार्युर्गमनागमनैनराः । इत्याकार्षीद् यन्त्रमयान्, लौहानारक्षकान् नृपः ॥ ६३३ ॥ आरक्षपुरुषैलॊहैर्यन्त्रायुक्तैश्च तैरभूत् । नृणामगम्यं स्थानं तन्माद् बहिरिव स्थितम् ।। ६३४ ।। दण्डरत्नेन रत्नेशो, दन्तांश्चिच्छेद तत्र च । ऋजूच्चस्तम्भवत् सोऽदिरनारोह्यस्ततोऽभवत् ॥६३५ ॥ नृपो नृभिरलच्यानि, योजनान्तरितानि च । पदानि मेखलारूपाण्यौ तं परितो व्यधात् ।। ६३६ ।। ततः प्रभृति शैलोऽसौ, नाम्नाऽष्टापद इत्यभूत् । लोके हराद्रिः कैलासः, स्फटिकाद्रिश्च कीर्त्यते ।। ६३७ ।। इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्रऽविशन्मेघ इवोडुपः ।। ६३८ ।। १ यमुनया । २ आज्ञासमनन्तरम् । ३ चक्री । ४ शशी ।
अष्टापदोपरि भरतकारितः | सिंहनिषद्याजिनप्रासादः ।
।।३४१ ।।