________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३४२ ॥
कृत्वा प्रदक्षिणां तत्र, प्रतिमास्ताः सुगन्धिभिः । उदकैः स्नपयामास, भूपतिः सपरिच्छदः ।। ६३९ ।। ममार्ज देवदूष्यैश्च, भरतः परितोऽपि ताः । रत्नादर्श इवाऽभूवंस्तास्ततश्चाऽधिकोज्ज्वलाः ॥ ६४० ।। गोशीर्षचन्दनरसैर्विलिलेप नृपोऽथ ताः । सुगन्धिस्त्यानतां प्राप्तैर्योत्स्नापुरैरिवाऽमलैः ।।६४१ ।। ताः क्षमापतिरानर्च, विचित्रै रत्नभूषणैः । दिव्यदामभिरुद्दामैर्देवदूष्यांशुकैरपि ।। ६४२ ॥ ददाह वादयन् घण्टां, धूपं तद्भूमवर्तिभिः । कुर्वन् चैत्यान्तरं नीलवल्लरीभिरिवाऽकित्तम् ।। ६४३ ॥ ततश्चोत्तारयामास, कर्पूरारात्रिकं नृपः । संसारशीतभीतानामग्निकुण्डमिव ज्वलत् ।। ६४४ ।। ऋषभस्वामिनो नत्वा, प्रतिमां भरतेश्वरः । आक्रान्तः शोकभक्तिभ्यां, स्तोतुं प्रस्तुतवानिति ।। ६४५ ।। कल्याणैः पञ्चभिर्दत्तसुखाय श्वेभ्रिणामपि । जगत्सुखाकर ! नमस्तुभ्यं त्रिजगदीश्वर ! ।। ६४६ ।। स्वामिन् ! विर्वजनीनेन, त्वया विहरताऽन्वहम् । रविणेवाऽनुगृहीतं, चराचरमिदं जगत् ॥ ६४७ ।। अप्यार्याणामनार्याणां, प्रीतये व्यहरश्चिरम् । गतिः परोपकाराय,भवतः पवनस्य च ।। ६४८ ॥ उपकर्तुमिहाऽन्येषां, व्यहार्षीभगवंश्चिरम् । मुक्तौ कस्योपकाराय, गतोऽसि परमेश्वर! ? ॥ ६४९ ॥ लोकाग्रमद्य लोकाग्रं, भवता यदधिष्ठितम् । मर्त्यलोकोऽयमद्यैव, मर्त्यलोकस्त्वयोज्झितः ॥६५० ॥ अद्याऽपि साक्षात् त्वमसि, तेषां भव्यशरीरिणाम् । विश्वानुग्रहकरिणी, देशनां ये स्मरन्ति ते ॥६५१ ।। रूपस्थमपि ये ध्यानं, त्वयि नाथ ! प्रयुञ्जते । प्रभो! प्रत्येक्षमेवाऽसि, तेषामपि महात्मनाम् ।। ६५२ ।। १ सुगन्धिघनताम् । २ चैत्यमध्यम् । ३ नारकाणाम् । ४ विश्वहितकारकेण । ५ मोक्षम् । ६ सर्वलोकोत्तरम् । ७ मनुष्यलोकः । ८ मरणोचितलोकः ।
अष्टापदप्रासादान्तःस्थितानां जिनानां स्तुतयः ।
॥३४२ ॥