________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३४० ॥
लोमहस्तपटल्योऽथ, विभूषणकरण्डकाः । हैमानि धूपदहनकानि चाऽऽरात्रिकाणि च ।। ६१० ॥ रत्नमङ्गलदीपाश्च, रत्नभृङ्गारका अपि । स्फाराणि रत्नस्थालानि, तापनीयाः पतद्ग्रहाः ।। ६११ ॥ रत्नचन्दनकलसा, रत्नसिंहासनानि च । रत्नमय्योऽष्टमङ्गल्य, हैमाश्चोत्पलहस्तकाः ।। ६१२ ।। धूपभाण्डानि हैमानि, हैमाश्चोत्पलहस्तकाः । पुरो बभूवुश्च चतुर्विंशतः श्रीमदर्हताम् ।। ६१३ ।। इति नानारत्नमय, त्रैलोक्येऽप्यतिसुन्दरम् । मूर्तेन धर्मेणेवेन्दुकान्तवप्रेण शोभितम् ।। ६१४ ।। ईहामृगोक्ष-मकर-तुरङ्ग-नर-किन्नरैः । विहङ्ग-वालक-रुरु-शरभैश्चमरैर्द्विपैः ।। ६१५ ॥ वनलताऽब्जलताभिर्विचित्राद्भुतभगिकम् । बहुद्रुममिवोद्यानं, रत्नस्तम्भसमाकुलम् ।। ६१६ ।। व्योमगङ्गोर्मिभिरिव, पताकाभिर्मनोरमम् । उन्नतैर्दन्तुरमिव, ध्वजदण्डैश्च काञ्चनैः ॥ ६१७ ॥ ध्वजस्थकिङ्किणीक्वाणैः, प्रसरद्भिर्निरन्तरैः । खेचरस्त्रैणरसनादामध्वनिविडम्बकम् ।। ६१८ ॥ उपरि भ्राजमानं च, विशालद्युतिशालिना । पद्मरागाश्मकुम्भेन, माणिक्येनाऽङ्गुलीयवत् ।। ६१९ ॥ क्वचित् पल्लवितमिव, संवर्मितमिव क्वचित् । क्वचित् रोमाञ्चितमिव, क्वचिल्लिसमिवाऽशुभिः ।। ६२० ।। गोशीर्षचन्दनरसमयस्थासकलाञ्छितम् । अतिसुश्लिष्टसन्धित्वादेकग्राव्णेव निर्मितम् ।। ६२१ ।। माणिक्यशालभञ्जीभिश्चेष्टवैचित्र्यचारुभिः । अधिष्ठितनितम्बं चाऽप्सरोभिर्मेरुशैलवत् ।। ६२२ ।। द्वारदेशमुभयतो, लिप्ताभ्यां चन्दनद्रवैः । कुम्भाभ्यां पुण्डरीकाभ्यां, स्थलजाभ्यामिवाऽङ्कितम् ।। ६२३ ।। धूपितैर्दामभी रम्यं, तिर्यग्बद्धावलम्बितैः । कुसुमैः पञ्चवर्णैश्च, रचितप्रकरं तले ।। ६२४ ॥ १ चामरसमूहाः । २ पात्राणि । ३ वृकः । ४ मृगविशेषः । ५ अधपदः ।
अष्टपदोपरि भरतकारितः | सिंहनिषद्याजिनप्रासादः ।
।। ३४० ।।