________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः
सर्गः
।।३३९ ।।
श्रीऋषभस्वामिचरितम् ।
देवच्छन्देऽभवन् रत्नप्रतिमास्तत्र निर्मलाः । ऋषभस्वामिमुख्यानां, चतुर्विंशतिरर्हताम् ।। ५९५ ।। प्रतिमाः स्वस्वसंस्थानमानवर्णधरास्तु ताः । साक्षादिव स्वामिनोऽभान्, शैलेशीध्यानवर्तिनः ॥ ५९६ ॥ तत्र षोडश सौवर्यो, राजावतकृते उभे । द्वे स्फाटिक्यौ द्वे वैडूर्यमय्यौ शोणाश्मजे उभे ।। ५९७ ।। तासां चाऽर्हत्यतिमानां, सर्वासामपि जज्ञिरे । लोहिताक्षप्रतिसेका, अङ्करत्नमया नखाः ।। ५९८ ।। नाभीकेशान्तभूजिह्वातालुश्रीवत्सचूचुकम् । तलानि हस्तपादस्य, तापनीयानि जज्ञिरे ।। ५९९ ।। पक्ष्माणि ताराः श्मश्रूणि, ध्रुवो रोमाणि मूर्द्धजाः । रिष्टरत्नमयान्यासन्, वैद्रुमा दन्तवाससः ।। ६०० ।। इन्ताश्च स्फटिकमयाः, शीर्षघट्यस्तु वज्रजाः । नासाश्चाऽन्तर्लोहिताक्षप्रतिसेकाः सुवर्णजाः ।। ६०१ ॥ लोहिताक्षप्रतिसेकप्रान्ता अङ्ककृता दृशः । इत्यनेकमणीमय्यः, प्रतिमास्ताश्चकाशिरे ।। ६०२ ।। तासां च पृष्ठे प्रत्येकमेकैका रत्ननिर्मिता । छत्रधारप्रतिमा च, यथावन्मानशालिनी ।। ६०३ ।। मुक्ताप्रवालजालाढूं, सकुरण्टकदामकम् । श्वेतातपत्रं स्फटिकमणिदण्डं दधत्यभूत् ॥६०४ ॥ ॥युग्मम् ।। प्रत्येकं पार्श्वयोस्तासामुत्क्षिप्तमणिचामरे । चामरधारप्रतिमे, रत्नमय्यौ बभूवतुः ।। ६०५ ।। नौगयक्षभूतकुण्डधाराणां प्रतिमे उभे । प्रत्येकमग्रे भगवत्प्रतिमानां बभूवतुः ।। ६०६ ।। ताः कृताञ्जलयो रत्नमय्यः सर्वाङ्गमुज्ज्वलाः । निषेदिवांसः प्रत्यक्षा, इव नागादयो बभुः ।। ६०७ ।। देवच्छन्दे रत्नघण्टाश्चतुर्विशतिरुज्ज्वलाः । सङ्क्षिप्तादित्यबिम्बाभास्तथा माणिक्यदर्पणाः ।। ६०८ ।। स्थानस्थदीपिका हैम्न्यस्तथा रत्नकरण्डकाः । पुष्पचङ्गेरिकाश्चङ्गाः, सरिदावर्त्तवर्तुलाः ॥ ६०९ ॥ १ राजावर्ताख्यरलविशेषकृते । २ लोहिताक्षमणिरसच्छटाः । ३ अङ्काख्यरत्नविशेषमयाः । ४ स्तनाग्रभागः । ५ सौवर्णानि । ६ रिष्यख्यरत्नविशेषमयानि । ७ ओष्ठाः । ८ द्वे नागप्रतिमे, द्वे यक्षप्रतिमे, द्वे भूतप्रतिमे, द्वे कडधारप्रतिमे च ।
| अष्टापदोपरि भरतकारितः सिंहनिषद्याजिनप्रासादः ।
॥३३९ ।।