________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३८ ॥
शाश्वत्यः प्रतिमा जैन्यो, नेत्रकैरवचन्द्रिकाः । नन्दीश्वरमहाद्वीपचैत्यमध्य इवाऽभवन् । ५८० ॥ तेषां च चैत्यस्तूपानां, प्रत्येक पुरतोऽभवत् । अनर्थ्यमाणिक्यमयी, विशाला चारुपीठिका ।। ५८१ ॥ पीठिकानां पुरस्तासां, प्रत्येकं चैत्यपादपाः । चैत्यद्रूणां पुरस्तेषां, प्रत्येक मणिपीठिकाः ।। ५८२ ।। उपरीन्द्रध्वजस्तासां, प्रत्येकमपि चाऽभवत् । जयस्तम्भो दिशि दिशि, धर्मेणेवाऽधिरोपितः ।। ५८३ ॥ इन्द्रध्वजानां च पुरः, प्रत्येकमपि चाऽभवत् । नाम्ना नन्दा पुष्करिणी, त्रिसोपाना सतोरणा ।। ५८४ ॥ स्वच्छशीतजलापूर्णा, विचित्राम्भोजशालिनी । मनोहरा दधिमुखाधारपुष्करिणीनिभा ।। ५८५ ॥ आसीत् सिंहनिषद्याया, महाचैत्यस्य तस्य तु । मध्यभागे सुमहति, महती मणिपीठिका ॥ ५८६ ॥ तस्याश्चोपरि समवसरणस्येव मध्यतः । चित्ररत्नमयो देवच्छन्कः समजायत ।। ५८७ ॥ नानावाँशुकमय, उल्लोचस्तदुपर्यभूत् । उद्भावयन्नकालेऽपि, सन्ध्याभ्रपटलश्रियम् ।। ५८८ ॥ उल्लोचस्याऽन्तरे पार्श्वतश्च वज्रमयाङ्कुशाः । आसन्नुल्लोचशोभा तु, तथाऽप्यासीन्निराशा ।। ५८९ ।। सुधाधारोपमा हारा, अकुशेष्ववलम्बिताः । कुम्भमेयैरामलकस्थूलैर्मुक्ताफलैः कृताः ।। ५९० ॥ हारप्रान्तेषु चाऽभूवन्, विमला मणिमालिकाः । त्रैलोक्यमणिखानी नामाहृता इव वर्णिकाः ।। ५९१ ॥ प्रान्तेषु मणिमालानाममला वज्रमालिकाः । आलिका इव भादोभिरालिङ्गन्त्यः परस्परम् ॥ ५९२ ।। तद्भित्तिषु गवाक्षाश्चाऽभवंश्चित्रमणीमयाः । स्वप्रभापटलैतितिरस्करिणिका इव ।। ५९३ ॥ दह्यमानागरुधूमस्तोमास्तेषु चकाशिरे । गिरेस्तस्य नवोद्भूतनीलचूलाभ्रमप्रदाः ।। ५९४ ॥ १ नेत्रकुमुदज्योत्स्नाः ।२ आमलकफलवत् स्थूलैः । ३ सख्यः । ४ कान्तिभुजैः । ५ जातजवनिकाः ।
| अष्टापदोपरि
भरतकारितः सिंहनिषद्याजिनप्रासाद ।
।।३३८ ॥