________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३७॥
इन्द्राः स्वस्वविमानेषु, सुधर्मायां च पर्षदि । अधिमाणवकस्तम्भ, वृत्तवज्रसमुद्गके ।। ५६४ ।। न्यवेशयन् स्वामिदंष्ट्रा, आनर्चुश्च निरन्तरम् । तासां प्रभावात् तेषां च, सदा विजयमङ्गले ।। ५६५ ॥ भरतस्तत्र च स्वामिसंस्कारासन्नभूतले । प्रासादं योजनायाम, त्रिगव्यूतसमुच्छ्रयम् ।। ५६६ ।। नामतः सिंहनिषद्या, पद्यां निर्वाणवेश्मनः । उच्चैर्वर्द्धकिरत्नेन, रत्नाश्मभिरकारयत् ।। ५६७ ।। तस्य द्वाराणि चत्वारि, स्फटिकाश्ममयानि च । रम्याणि स्वामिसमवसरणस्येव जज्ञिरे ।। ५६८ ॥ प्रतिद्वारमुभयतो, बभूवुस्तत्र षोडश । रलचन्दनकलसाः, कोशा इव शिवश्रियाम् ।। ५६९ ।। द्वारे द्वारे रत्नमयास्तोरजाः षोडशाऽभवन् । साक्षादिव समुद्भूताः, परितः पुण्यवल्लयः ।।५७०।। द्वारे द्वारे रत्नमयास्तोरणाः षोडशाऽभवन् । प्रासादद्वारविन्यस्तप्रशस्तिलिपिसन्निभाः ।। ५७१ ॥ द्वारेषु तेषु चाऽभूवन्, विशाला मुखमण्डपाः । दिक्पालानां चतुर्णामप्याहृता इव पर्षदः ।। ५७२ ।। तेषां चतुर्णां च मुखमण्डपानां पुरोऽभवन् । श्रीवल्लीनां मण्डपान्तः प्रेक्षासदनमण्डपाः ।। ५७३ ॥ तेषां प्रेक्षामण्डपानां, मध्यभागेषु जज्ञिरे । अक्षवाटा वज्रमयाः सूर्यबिम्बोपहासिनः ।। ५७४ ।। अक्षवाटेऽक्षवाटे च, मध्यभागे मनोहरम् । रत्नसिंहासनमभून्मध्येऽब्जमिव कर्णिका ।। ५७५ ॥ प्रतिप्रेक्षामण्डपाग्रं, बभूव मणिपीठिका । चैत्यस्तूपास्तदुपरि, चाऽभवन् रत्नशालिनः ।। ५७६ ॥ तेषां च चैत्यस्तूपानां, पुरतो द्योतिताम्बरा । प्रत्येकं च प्रतिदिशं, महती मणिपीठिका ।। ५७७ ॥ प्रत्येकं तदुपरिष्टात्, पञ्चधन्वशतप्रमाः । चैत्यस्तूपसन्मुखीनाः, सर्वाङ्गं रत्ननिर्मिताः ।। ५७८ ॥ ऋषभा वर्द्धमाना च, ततश्चन्द्राननाऽपि च ।वारिषेणेति पर्यङ्कासनासीना मनोहराः ।। ५७९ ॥
अष्यपदोपरि भरतकारितः सिहनिषद्याजिनप्रासादः ।
॥३३७ ।।