________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३६ ॥
श्रीऋषभ
अथ गोत्रभिदादेशान्नाकिनोऽमिकुमारकाः । चितासु तासु तत्कालमग्मिकायान् विचक्रिरे ।। ५४९ ।। शक्राज्ञया विचक्रुश्च, वायून वायुकुमारकाः । अभितो ज्वालयामासुर्वह्निमह्नाय ते ततः ।। ५५० ॥ चितास्विन्द्राज्ञया देवाः, कर्पूरादीनि भारशः । निदधुः कुम्भशश्चाऽपि, सपौषि च मधूनि च ।। ५५१ ।। || मुक्त्वाऽस्थि धातवो यावद्, दग्धास्तावच्चितानलम् । व्यध्यापयन् सुराः क्षीराम्भोभिर्मेघकुमारका. ॥५५२ ॥ प्रतिमावत् पूजयितुं, स्वविमाने पुरन्दरः । अग्रहीदुपरितनी, दंष्ट्रां वामेतरां प्रभोः ।। ५५३ ।। ईशानोऽप्युपरितनी, तइंष्ट्रां दक्षिणेतराम् । अधस्तनी दक्षिणां तु, चमरेन्द्र उपाददे ॥ ५५४ ।। बलिर्वामामधोदंष्ट्रां, जग्राहाऽन्ये तु वासवाः । शेषदन्तान् नाकिनोऽन्ये, जगृहुः कीकसानि तु ॥ ५५५ ॥ मार्गन्तः श्रावका देवैर्दत्तकुण्डत्रयामयः । ततः प्रभृत्यभूवंस्ते, ब्राङ्खणा अग्निहोत्रिणः ।। ५५६ ।। ते हि स्वामिचितावह्नि, गृहे नित्यमपूजयन् । रक्षन्ति स्म च निर्वातं, लक्षदीपमिवेश्वराः ॥ ५५७ ।। इक्ष्वाकुवंश्यशेषानगाराणां ते चितानलौ । निर्वाणौ जीवयन्ति स्म, स्वामिचित्याकृशानुना ।। ५५८ ॥ इक्ष्वाकूणां महर्षीणामपि चित्याकृशानुना । अन्यानगारिचित्यानि, ते निर्वाणमबोधयन् ।। ५५९ ।। अन्यानगारिचित्यानिं, चित्याग्न्योरन्ययोः पुनः । न हि सङ्क्रमयन्ति स्म, द्विजेष्वद्याऽप्यसौ विधिः ॥५६०॥ केचित् तु लब्धभस्मानो, भक्त्या भस्म ववन्दिरे । ततः प्रभृति जाताच, तापसा भस्मभूषणाः ।। ५६१ ॥ चितास्थानत्रये देवा, रत्नस्तूपत्रयं ततः । अष्टापदगिरेनव्यं, शृङ्गत्रयमिव व्यधुः ।। ५६२ ॥ ततो नन्दीश्वरद्वीपे, शाश्वतप्रतिमोत्सवम् । कुर्वाणास्ते तु गीर्वाणाः, सेन्द्राः स्वं स्वं पदं ययुः ॥ ५६३ ।। १ इन्द्रादेशात् । २ शीघ्रम् । ३ घृतानि । ४ अस्थीनि । ५ अग्मिना । ६ देवाः ।
जिन
निर्वाणमहोत्सवः ।
।।३३६ ॥