________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३५ ॥
शिबिकायां तृतीयस्यामन्येषामनगारिणाम् । निदधुर्विबुधाः कायान्, निजेष्वारोप्य मूर्धसु ।। ५३५ ॥ अथ तां स्वामिशिबिकामुद्दधार स्वयं हरिः । मुनीनामपरेषां तु, शिबिके अपरे सुराः ।। ५३६ ॥ अप्सरःसु ददानासु, तालरासकमेकतः । कुर्वाणासु च सङ्गीतं, मधुरध्वानमन्यतः ।। ५३७ ॥ पुरःपुरो धूपघटीर्धारयत्सु सुपर्वसु । धूपधूमच्छलाद् बाष्पं, वमन्तीरिव शोकतः ।। ५३८ ।। क्षिपत्सु पुष्पदामानि, शिबिकोपरि केषुचित् । शेषाहेतोश्च तान्येवोपाददानेषु केषुचित् ॥ ५३९ ॥ देवदूष्यैस्तोरणानि, पुरःकुर्वत्सु केषुचित् । ददत्सु केषुचिद् यक्षकर्दमैः सेकमग्रतः ॥ ५४० ।। केषुचिद् विलुठत्स्वग्रे, यन्त्रभ्रष्टाश्मगोलवत् । धावत्सु पृष्ठतोऽन्येषु, मोहचूर्णाहतेष्विव ।। ५४१ ॥ उच्चैः शब्दायमानेषु, नाथ ! नाथेति केषुचित् । मन्दभाग्या हताः स्मः स्वमिति निन्दत्सु केषुचित् ।।५४२ ॥ शिक्षा नो देहि नाथेति, मुहुर्नाथत्सु केषुचित् । को धर्मसंशयं छेत्स्यत्येवं जल्पत्सु केषुचित् ।। ५४३ ।। वयं यामोऽन्धवत् क्वेति, सानुशयेषु केषुचित् । ददातु भू! विवरमित्याकाङ्क्षत्सु केषुचित् ।। ५४४ ।। वाद्यमानेषु तूर्येषु, तां स्वामिशिबिकां हरिः । उपचित्यं निनायाऽन्ये, निन्युश्च शिबिके सुराः ।। ५४५ ।।
॥नवभिः कुलकम् ।। प्राचीनबर्हिः प्राचीनचितायां स्वामिनस्तनुम् । शनकैः स्थापयामास, स्वपुत्र इव कृत्यवित् ॥ ५४६ ॥ चित्यायां दाक्षिणात्यायामिक्ष्वाकुकुलजन्मनाम् । वपूंषि स्थापयन्ति स्म, सनाभय इवाऽमराः ।। ५४७ ।। अन्येषामनगाराणां, शरीराण्यपरे सुराः । प्रतीचीनचितायां तु, समीचीनविदो न्यधुः ।। ५४८ ॥ १ साधुनाम् । २ देवेषु । ३ याचमानेषु । ४ इन्द्रः । ५ सहोदराः ।
ARRRRRRRRRRRRRRRRR
श्रीऋषभजिन| निर्वाणमहोत्सवः ।
॥३३५ ।।