________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३४ ॥
धीरो भव धराधीश!, विद्धयात्मानं यदीशितुः । जगत्रयैकधीरस्य, तनयस्तस्य नन्वसि ॥ ५२० ॥ गोत्रवृद्धेनेव वृद्धश्रवसैवं प्रबोधितः । आललम्बे नृपो धैर्य सहजं शैत्यमम्बुवत् ।। ५२१ ॥ अथ स्वाम्यङ्गसंस्कारोपस्कराहरणे द्रुतम् । आदिदेश शुनासीरस्त्रिदशानाभियोगिकान् ॥ ५२२ ॥ ततः सङ्क्रन्दनादेशान्नन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनेधासि, समानिन्युर्दिवौकसः ॥ ५२३ ॥ इन्द्रादेशादथैन्यां ते, स्वामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां गोशीर्षचन्दनैः ॥ ५२४ ॥ कृते तथा महर्षीणामिक्ष्वाकुकुलजन्मनाम् । दिशि व्यधुर्दक्षिणस्यां, त्र्यम्राकारां चितां सुराः ॥ ५२५ ॥ अन्येषामनगाराणां, कृते च त्रिदिवौकसः । चतुरस्रां चितां चक्रुरपरस्यां पुनर्दिशि ।। ५२६ ॥ अथ क्षीरोदपाथोधेः, पुष्करावर्त्तकैरिव । देवैरानाययामास, द्रुतं पाासि वासवः ।। ५२७ ।। तेन च स्नपयामास, पयसा भगवत्तनुम् । गोशीर्षचन्दनरसैर्विलिलेप च वज्रभृत् ।। ५२८ ॥ वासवो वासयामास, वाससा हंसलेक्ष्मणा । ततस्तद् देवदूष्येण, शरीरं परमेशितुः ॥ ५२९ ॥ सर्वतो भूषयामास, दिव्यैर्माणिक्यभूषणैः । परमेष्ठिशरीरं तत्, त्रिविष्टपसदग्रणीः ॥ ५३० ॥ अन्ये तु देवा अन्येषां, मुनीनामपि तत्क्षणम् । इन्द्रवद् विदधुर्भक्त्या, तत् सर्वं स्नपनादिकम् ॥५३१ ॥ जगत्त्रय्या रत्नसारैः, पृथक् पृथगिवाऽऽहतैः । सहस्रवाह्याः शिबिकास्तिस्रश्चक्रुर्दिवौकसः ॥ ५३२ ॥ प्रणम्य चरणौ भर्तुर्वपुश्चाऽऽरोप्य मूर्धनि । शिबिकायां निचिक्षेप, स्वयमेव पुरन्दरः ॥ ५३३ ॥ वपूंषीक्ष्वाकुवंश्यानामपरस्यां दिवौकसः । शिबिकायां शिवपदातिथीनां परिचिक्षिपुः ॥ ५३४ ॥
श्रीऋषभ| जिन| निर्वाणमहोत्सवः ।
॥३३४ ॥
१ इन्द्रेण । २ इन्द्रादेशात् । ३ पूर्वदिशि । * लजन्मिनाम् । ४ जलानि । ५ हंसचिझेन । ६ इन्द्रः ।