________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३३३ ॥
लोकाग्रमथवाऽयासीभगवन् ! भाषसेन यत् । आभाषन्ते दुःखितं मां, तेऽपि मद्वन्धवो न किम् ? ॥ ५०६ ॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥५०७ ॥ तातो जगत्त्रयत्राता, बाहुबल्यादयोऽनुजाः । स्वसारौ ब्राह्मीसुन्दयौँ, पुण्डरीकादयः सुताः ॥ ५०८ ॥ श्रेयांसाद्याश्च नप्तारो, हत्वा कैर्मद्विषोऽखिलान् । ययुर्लोकाग्रमद्याऽपि, जीवामि प्रियजीवितः ॥५०९ ॥ शोकाज्जीवितनिर्विण्णं, मुमूर्षुमिव चक्रिणम् । दृष्ट्वा बोधयितुमिति, प्रारेभे पार्केशासनः ।।५१०॥ भरतेश ! महासत्त्व !, स्वाम्यसौ तावदावयोः । संसाराम्भोधिमतरत्, तारयामास चाऽपरान् ॥ ५११ ।। एतत्कृतेन तीर्थेन, तीर्थेनेवे महानदीम् । उत्तरिष्यन्ति संसार, चिरं संसारिणोऽपरे ॥ ५१२ ॥ कृतकृत्यः स्वयं ह्येष, भगवानपरानपि । कृतकृत्यान् जनान् कर्तु, पूर्वलक्षमवास्थित ।। ५१३ ॥ अनुगृह्याऽखिलं लोकं, स्थानं तदपुनर्भवम् । आसेदुषो जगद्भा, राजन् ! किं नाम शोचसि ? ॥५१४ ॥ प्रेत्य यो योनिलक्षेषु, महादुःखैकवेश्मसु । अनेकशः सञ्चरति, परांसुः स हि शोच्यते ॥ ५१५ ॥ तत् किं न लज्जसे शोचन, प्रभावन्यजनेष्विव ? | शोचितुः शोचनीयस्य, चोभयोरपि नोचितम् ॥५१६ ॥ एकदाऽपि हि योऽश्रौषीत, स्वामिनो धर्मदशनाम । न सोऽपि शोकहर्षाभ्यां, जीयते किं पुनर्भवान् ? ॥५१७॥ महाम्भोधेरिव क्षोभः, कम्पो मेरुगिरेरिव । उद्वर्त्तनमिवाऽवन्याः, कुलिशस्येव कुण्ठता ॥५१८ ॥ पीयूषस्येव वैरेस्यमनुष्णांशोरिवोष्णता । असम्भाव्यं महीनाथ !, तवेदं परिदेवनम् ।।५१९।। ।युग्मम्॥ १ पौत्राः । २ कर्मशत्रून् । ३ मर्तुमिच्छुम् । ४ इन्द्रः । ५ जलावतारमार्गेण । ६ मोक्षस्थानम् । ७ मृत्वा । ८ मृतः । ९ रसराहित्यम् । १० चन्द्रस्य ।। ११ विलापः।
SHRISHRSHASSASSASSASSS
भरतस्य शोकः ।
॥३३३ ॥