________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
षष्ठः सर्गः
॥३३२ ।।
श्रीऋषभस्वामिचरितम् ।
श्रीऋषभ
प्रभो
प्रपन्नानशनास्तेऽपि, सहस्रा वतिनां दश । क्षपक श्रेणिमारूढाः, सर्वेऽप्युत्पन्नकेवलाः ।। ४९१ ।। मनोवचनकायानां, योगं रुद्ध्वा च सर्वतः । क्षणादासादयामासुः, स्वामिवत् परमं पदम् ।। ४९२ ॥ स्वामिनिर्वाणकल्याणानिर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ।। ४९३ ॥ महाशोकसमाक्रान्तश्चक्रवर्ती तु तत्क्षणम् । पपात मूर्छितः पृथ्व्यां, वजाहत इवाऽचलः ।। ४९४ ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् । विदाञ्चकार रुदितं, न कश्चिदपि यत् तदा ।। ४९५ ।। दुःखशैथिल्यहेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ।। ४९६ ।। अनु सङ्क्रन्दनं चक्रे, क्रन्दनं त्रिदशैरपि । समा हि समदुःखाना, चेय भवति देहिनाम् ।। ४९७ ।। तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चयपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयन्निव ।। ४९८ ।। रुदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिर्महानपि । पालीबन्धो महास्रोतोरंहसेव महीयसा ।। ४९९ ।। सुरासुरमनुष्याणां, रुदितै रुदितैस्ततः । त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ।। ५०० ॥ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाध्वा प्रववृते, शोकशल्यविशल्यकः ।। ५०१ ॥ नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपति ! । दुःखितो विललापैवं, तिरश्चोऽपि हि दुःखयन् ।। ५०२ ।। हा तात! हा जगब्दन्धो !, हा कृपारससागर! । अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ? ॥ ५०३ ॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । तमसीव ऋते दीपं, स्थास्यामोऽत्र कथं भवे ? ५०४ ।। छद्मस्थस्येव ते मौनं, किमेतत् परमेश्वर ! ? | कुरुष्व देशनां नाऽनुगृह्णासि किममुंजनम् ? ॥ ५०५ ।। * सहस्राणि दशर्षयः । १ महाप्रवाहवेगेन । २ रोदनमार्गः ।
निर्वाणम् ।
।।३३२ ।।