________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। ३३१ ।।
लघूकुर्वन्निवाऽध्वानं, रंहसा भरतेश्वरः । समीरण इव प्राप, क्षणेनाऽष्टापदाचलम् ।। ४७६ ।। परिश्रममजानानो, जनवत् पादचार्यपि । अध्यारुरोह भरतस्ततोऽष्टापदपर्वतम् ।। ४७७ ।। ईक्षाञ्चक्रे चक्रवर्ती, शोकहर्षसमाकुलः । तत्र च त्रिजगन्नाथं, पर्यङ्कासनसंस्थितम् ॥ ४७८ ॥ तत्र प्रदक्षिणीकृत्य, वन्दित्वा च जगत्पतिम् । देहच्छायेव पार्श्वस्थः समुपास्ते स्म चक्रभृत् ॥ ४७९ ।। इत्थं स्थिते प्रभावेतेऽप्यस्मासु कथमासते ? । इति हेतोरिवेन्द्राणामासनानि चकम्पिरे ।। ४८० ॥ अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पस्य कारणम् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ॥। ४८१ ।। Sपि प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ।। ४८२ ॥ तथाऽस्यामवसर्पिण्यां तृतीयस्याऽरकस्य तु । पक्षेष्वेकोननवताववशिष्टेषु सत्सु च ।। ४८३ ॥ माघाभिधानमासस्य, कृष्णत्रयोदशीतिथौ । पूर्वाह्णेऽभीचिनक्षत्रे, शशियोगमुपागते ।। ४८४ ॥ तथा निषण्णः पर्यासने स्थित्वा च बादरे । काययोगे बादरौ वाक्चित्तयोगौ रुरोध च ।। ४८५ ॥ सूक्ष्मेण काययोगेन, काययोगं च बादरम् । रुद्ध्वा रुरोध सूक्ष्मौ च, योगौ वाक्चित्तलक्षणौ ।। ४८६ । इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥ ४८७ ॥ ततश्च ध्यानमुच्छ्न्नक्रियं नाम तुरीयकम् । पञ्चस्वाक्षरोच्चारकालमशिश्रियत् ॥ ४८८ ॥ सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणकर्मा निष्ठितार्थोऽनन्तवीर्यसुखर्द्धिकः ।। ४८९ ।। बन्धाभावादूर्ध्वगतिरेरण्डफलबीजवत् । प्रभुः स्वभावादृजुना, पथा लोकाग्रमासदत् ।। ४९० ।। ★ मुत्सन्न । १ अ इ उ ऋ लृ इति पञ्चह्नस्वाक्षरोच्चारे यावान् कालो जायते तावत्कालमितं कालम् ।
प्रथमं पर्व षष्ठः
सर्गः श्रीऋषभस्वामिचरितम् ।
शैलेशी
करणम् ।
।। ३३१ ।।