________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः
सर्गः
॥३३०॥
श्रीऋषभस्वामिचरितम् ।
समं मुनीनां दशभिः, सहौः प्रत्यपद्यत । चतुर्दशेन तपसा, पादपोपगम प्रभुः ।। ४६१ ॥ तस्थिवांसं तथा विश्वनाथं पर्वतपालकाः । आशु विज्ञापयामासुर्गत्वा भरतचक्रिणे ॥ ४६२ ॥ प्रभोश्चतुर्विधाहारप्रत्याख्यानं निशम्य सः । शोकेन शङ्खनेवान्तःप्रविष्टेन व्यबाध्यत ।। ४६३ ।। ततोऽकृशेन संस्पृष्टः, सद्यः शोककृशानुना । तरुः सिमिसिमा बिन्दूनिवाऽश्रूणि मुमोच सः ।। ४६४ ।। सान्तःपुरपरीवारो, दुरासुखपीडितः । प्रतस्थे पादचारेण, प्रत्यक्षपदमार्षभिः ॥ ४६५ ॥ नाऽजीगणत् कर्करान् स, कैर्कशानपि पादयोः । वेद्यते वेदना नैव, हर्षेणेव शुचाऽपि यत् ।। ४६६ ।। अक्षरन् रक्तधाराश्च, पदोः कर्करदूनयोः । आसीच्चालक्तकाङ्केव, तस्याऽविन्यासपद्धतिः ।। ४६७ ॥ अवाजगणदुर्वीशो, जनान् यानोपनायिनः । आरोहणक्षणेनापि, मा भूद् विघ्नो गतेरिति ।। ४६८ ॥ आतपत्रे शिरःस्थेऽपि, तप्ततप्तो जगाम सः । न तापो मानसो जातु, सुधावृष्ट्याऽपि शाम्यति ।। ४६९ ।। शुग्विहस्तो हस्तदातृनपहस्तयते स्म सः । मार्गे विलगतः शाखिशाखाप्रान्तानिवोच्चकैः ॥ ४७०॥ अग्रेसरान् वेत्रधरानपि पश्चाच्चकार सः । रयात् तरीव तीदून्, सरिदायामगामिनी ।। ४७१ ।। पदे पदे स्खलन्तीश्च, वेगाच्चामरधारिणीः । चक्री प्रतीक्षाञ्चक्रे न, चित्तवद् गन्तुमुत्सुकः ।। ४७२ ॥ उच्छल्योच्छल्य वेगेनोरःस्थलास्फालनैर्मुहुः । विशीर्णमपि नाऽज्ञासीन्मुक्ताहारं महीपतिः ।। ४७३ ।। प्रभौ गतमनस्कत्वात्, पार्श्वस्थानप्यजूहवत् । भूयः प्रष्टुं स्वामिवार्ता, वेत्रिणा गिरिपालकान् ॥ ४७४ ॥ नाऽपश्यत् किञ्चिदप्यन्यन्नाऽशृणोत् कस्यचिद् वचः । दध्यौ स प्रभुमेवैकं, ध्यानस्थ इव योगवित् ।। ४७५ ॥ १ कोलेन । प्रतिष्ठेन ।२ महता । ३ शोकाग्निना । ४ अत्यन्तदुःखपीडितः । ५ कठोरान् । ६ अतितप्तः । ७ शोकेन विह्वलः । ८ नाविका । + योगिवत् ।
श्रीऋषभप्रभो
निर्वाणम् ।
॥३३०॥