________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३२९ ।।
यत्रैकोऽपि यतिः सिध्येत्, तीर्थं तदपि पावनम् । किं पुनर्यत्र तावन्तः, सिषिधुस्ते महर्षयः ? ।। ४४७ अथ शत्रुञ्जयगिरौ, चैत्यं रत्नशिलामयम् । अकारयन्मेरुप्रस्पर्द्धि भरतेश्वरः ।। ४४८ ।। पुण्डरीकप्रतिमया, सहितां प्रतिमां प्रभोः । चेतनामिव चेतोऽन्तस्तन्मध्येऽस्थापयन्नृपः ।। ४४९ ।। नानादेशेषु विहरन्, भविनो भगवानपि । अन्वग्रहीद् बोधिदानाच्चक्षुर्दानादिवाऽन्धलान् ।। ४५० ।। प्रभोराकेवलज्ञानाच्छ्रमणानां तु जज्ञिरे । चतुरशीतिसहस्राः, साध्वीलक्षत्रयं तथा ॥ ४५१ ॥ स पञ्चाशत्सहस्रं तु, श्राद्धलक्षत्रयं तथा । श्राद्धीलक्षाः पञ्च सार्द्धाश्चतुःसहस्रसंयुताः ।। ४५२ ।। सहस्राणि तु चत्वारि, तथा सप्त शतानि च । पञ्चाशदधिकान्यासन्, श्रीचतुर्दशपूर्विणाम् ।। ४५३ ।। अवधिज्ञानिसाधूनां, सहस्राणि नवाऽभवन् । केवलज्ञानिसाधूनां, सहस्राणि तु विंशतिः ।। ४५४ ।। जातवैक्रियलब्धीनां श्रमणानां महात्मनाम् । षट्शताभ्यधिकान्यासन् सहस्राणि तु विंशतिः ॥४५५ ॥ पृथक् पृथग् वादिनां च, मनःपर्ययिणां तथा । द्वादशाऽऽसन् सहस्राणि, सपञ्चाशच्च षट्शती ।।४५६ ॥ अनुत्तरविमानोपपातिनां च महात्मनाम् । द्वाविंशतिसहस्राणि, चाऽभवन् भुवनप्रभोः ॥ ४५७ ॥ एवं चतुर्विधं सङ्घ, भगवानादितीर्थकृत् । धर्मे संस्थापयामास, व्यवहार इव प्रजाः ॥ ४५८ ॥ दीक्षाकालात् पूर्वलक्षं, क्षपयित्वा ततः प्रभुः । ज्ञात्वा स्वमोक्षकालं च, प्रतस्थेऽष्टापदं प्रति ।। ४५९ ।। शैलमष्टापदं प्राप, क्रमेण सपरिच्छदः । निर्वाणसौधसोपानमिवाऽऽरोहच्च तं प्रभुः ॥ ४६० ।।। + पर्यायिणां - द्वादश सहस्राणि सचतुर्विशतिषट्शतीं । १ मोक्षप्रासादसोपानम् ।
श्रीकृषभस्वामिनः परिवारः ।
।।३२९ ।।