SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् । ॥३२३ ।। प्रतिवासुदेवाः । ASHISHASHASHARARASHARASRALS चतुर्थस्तु बलदेवः, सुप्रभो नामधेयतः । सौदर्शनेयोऽब्दपञ्चपञ्चाशल्लक्षजीवितः ।। ३६१ ॥ पञ्चमो बलदेवस्तु, भावी नाना सुदर्शनः । सप्तदशवर्षलक्षजीवितो विजयासुतः ।। ३६२ ।। षष्ठो बलो वैजयन्त्याः, सूनुरानन्द आख्यया । पञ्चाशीतिसहस्राणि, वर्षाणामस्य जीवितम् ॥३६३ ।। सप्तमो बलदेवस्तु, नन्दनो नामधेयतः । पञ्चषष्टिसहस्राब्दायुर्जयन्तीसमुद्भवः ।। ३६४ ।। अष्टमस्तु बलदेवः, पद्मोऽपराजितासुतः । पञ्चदश सहस्राणि, वर्षाणामस्य जीवितम् ।। ३६५ ।। नवमस्तु बलदेवो, राम इत्यभिधानतः । द्वादशाब्दशतायुष्को, रोहिणीतनुसम्भवः ।। ३६६ ॥ तत्राऽष्टौ मोक्षगा रामो, ब्रह्मकल्पं गमिष्यति । उत्सर्पिण्यां स भरते, कृष्णतीर्थे तु सेत्स्यति ।। ३६७ ।। अश्वग्रीवस्तारकश्च, मेरैको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वराः ।। ३६८ ।। वासुदेवप्रतिमल्लाः, सर्वे चक्रप्रहारिणः । हनिष्यन्ते निजैश्चक्रेर्वासुदेवकरङ्गत्तैः ।। ३६९ ।। श्रुत्वा तद् भरताधीशो, भव्यसत्त्वैः समाकुलाम् । दृष्टवा च तां सभां हृष्टः, पप्रच्छ स्वामिनं पुनः ।।३७० ।। जगत्त्रय इवैकत्र, सामस्त्येनाऽपि तस्थुषि । तिर्यनरामरमये, सदसि त्रिजगत्पते ! ।। ३७१ ॥ अत्र किं कश्चिदप्यस्ति, भगवन् ! भगवानिव ? । तीर्थं प्रवर्त्य भरतक्षेत्रं यः पावयिष्यति ।। ३७२ ॥ ॥युग्मम्॥ शशंस भगवानेवं, य एष तव नन्दनः । मरीचिर्नामधेयेन, परिव्राजक आदिमः ।।३७३ ।। आर्तरौद्रध्यानहीनः, सम्यक्त्वेन च शोभितः । ध्यायश्चतुर्विधं धर्मध्यानं च रहसि स्थितः ।। ३७४ ।। दूकूलमिव पङ्केन, निःश्वासेनेव दर्पणः । कर्मणा मलिनोऽमुष्य, जीवः सम्प्रति वर्त्तते ॥३७५ ।। * सिद्धिगा । १ सिद्धि गमिष्यति । २ प्रतिवासुदेवाः । ।। ३२३ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy