________________
त्रिषष्टिशलाकापुरुषचरिते
२
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३२४ ॥
मरीचेर्गर्वः ।
शुक्लध्यानामिसंयोगादमिशौचमिवाऽशुकम् । जात्यं सुवर्णमिव च, स क्रमाच्छुद्धिमेष्यति ।।३७६ ।। इहैव भरतक्षेत्रे, नगरे पोतनाभिधे । त्रिपृष्ठो नाम दाशार्हः, प्रथमोऽसौ भविष्यति ॥३७७ ।। क्रमात् प्रत्यग्विदेहेषु, मूकायां पुरि चक्र्यसौ । तुग धनञ्जय-धारिण्योः, प्रियमित्रो भविष्यति ।। ३७८ ॥ चिरं च संसृत्य भवे, भविष्यत्यत्र भारते । अयं नाम्ना महावीरश्चतुर्विंशस्तु तीर्थकृत् ।। ३७९ ।। इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतेश्वरः । मरीचिं वन्दितुं भक्त्या, भगवन्तमिवाऽभ्यगात् ।। ३८०॥ नाम्ना त्रिपृष्ठः प्रथमो, दाशार्हाणां भविष्यति । चक्रवर्ती विदेहेषु, प्रियमित्राभिधश्च यत् ।। ३८१ ।। न तद् वन्दे न चेदं ते, पारिव्राज्यं न जन्म च । किन्तु वन्दे चतुर्विंशो, यत् त्वमर्हन् भविष्यति ॥३८२ ।। इति ब्रुवाणः शिरसि, बद्धाञ्जलिपुटस्ततः । तं त्रिः प्रदक्षिणीकृत्य, ववन्दे भरतेश्वरः ॥ ३८३ ॥
॥त्रिभिर्विशेषकम् ।। अथ नत्वा जगन्नाथ, जगाम जगतीपतिः । अयोध्या नगरी नागराजो भोगवंतीमिव ।। ३८४।। मरीचिस्तद्गिरा दृष्यस्त्रिः करास्फोटपूर्वकम् । जातप्रमोदोऽभ्यधिकं, वक्तुमेवं प्रचक्रमे ।।३८५ ।। यद्याद्यो वासुदेवानां, विदेहेषु च चक्रभृत् । अन्त्योऽर्हन् भविताऽस्मीति, पूर्णमेतावता मम ।। ३८६ ।। पितामहोऽर्हतामाद्यश्चक्रिणां च पिता मम । दाशार्हाणामहं चेति, श्रेष्ठं कुलमहो ! मम ॥३८७ ॥ त्रैलोक्यमेकतः सर्वमेकतश्च कुलं मम । एकतोऽन्यद् गजकुलं, यथैरावण एकतः ।। ३८८ ॥ ग्रहेभ्य इव चण्डांशुरुडुभ्य इव चन्द्रमाः । सर्वेभ्योऽपि कुलेभ्यो मे, कुलमेकं प्रकृष्यते ॥३८९ ।। १ पुत्रः । २ परिव्राजकत्वम् । ३ नागपुरीम् । ४ चरमतीर्थकरः श्रीमहावीरः । ५ नक्षत्रेभ्यः ।
||३२४ ॥