SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व षष्ठः सर्गः ।। ३०१ ॥ श्रीऋषभस्वामिचरितम् । ऋषभजिनातिशयाः । शीतलं वातलायेव, छागायेव धनागमः । स धर्मः स्वामिगदितो, रुरुचे कपिलाय न ।। ४२ ॥ (युग्मम्) धर्मान्तरं तु शुश्रूषुः, क्षिपन दृष्टिमितस्ततः । प्रेक्षाञ्चक्रे, मरीचि स, स्वामिशिष्यविलक्षणम् ॥४३ ॥ मरीचिं स्वामितः सोऽगाद्, धर्मान्तरजिघृक्षया । महेभ्याट्टाद् दरिद्राट्टमिव क्रायकबालकः ॥ ४४ ॥ धर्म तेनाऽनुयुक्तस्तु, मरीचिरिदमभ्यधात् । नेहाऽस्ति धर्मो धर्मार्थी, यदि तत् स्वामिनं श्रय ॥ ४५ ॥ ऋषभस्वामिनः पादाभ्यर्ण भूयो जगाम सः । पुनराकर्णयामास, धर्म तत्र तथैव तम् ।।४६ ॥ स्वकर्मदूषितायाऽस्मै, स्वामिधर्मोऽरुचन्न हि । चातकस्य वराकस्य, सम्पूर्णसरसाऽपि किम् ? ॥ ४७ ॥ मरीचिमाययौ भूयः, स इत्यूचे च किं तव ? योऽपि सोऽपि न धर्मोऽस्ति, निर्धर्म किं व्रतं भवेत् ? ॥४८॥ मरीचिश्चिन्तयामासऽनुरूपः कोऽप्ययं मम । अहो ! दैवादयं जज्ञे, योगः सदृशयोश्चिरात् ।। ४९ ।। सहायो निःसहायस्य, ममाऽस्त्विति विचिन्त्य सः । तत्राऽपि धर्मोऽस्त्यत्राऽपि, धर्मोऽस्त्येवमभाषत ॥५०॥ दुर्भाषितेन तेनैकेनाऽप्युपार्जयदुल्बणम् । अब्धिकोटीकोटिमानं, मरीचिर्भवमात्मनः ।। ५१ ।। अदीक्षयत् स कपिलं, स्वसहायं चकार च । परिव्राजकपाखण्डं, ततः प्रभृति चाऽभवत् ।। ५२ ॥ अथ साग्रं योजनानां, शतं लोकान् रुजां क्षयात् । अनुगृह्णस्तापशान्त्या, प्रावृषेण्य इवाऽम्बुदः ॥ ५३ ॥ पतङ्गमूषकशुकप्रायेतेरप्रवृत्तितः । अनीतेरिव भूपालः, सुखयन्नखिलाः प्रजाः ।। ५४ ।। नैमित्तिकानां वैराणां, शाश्वतानां च सर्वतः । प्रशमात् प्रीणयन् जन्तून, रविन्तिक्षयादिव ।। ५५ ॥ व्यवहारप्रवृत्त्याऽग्रे, सर्वसौस्थ्यकृता यथा । आनन्दयन्नमार्या च, परितोऽपि प्रजास्तथा ।। ५६ ॥ १ वातरोगिणे । २ मेषाय । ३ घनाळ्यापणात् । ४ पृष्टः । ५ पादसमीपम् । ॥३०१ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy