________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३०
॥
प्रतिबोध्याऽऽगतान् भव्यान्, परिविव्रजिषून सतः । मरीचिः प्रेषयामास, समीपे स्वामिपादयोः ।। २७ ।। प्रतिबुध्यागतानां च, तेषां दीक्षां स्वयं ददौ । निष्कारणोपकारैकबन्धुः स्वाम्वृषभध्वजः ॥ २८ ॥ मरीचेः स्वामिना सार्द्ध, एवं विहरतोऽन्यदा । शरीरे रोग उत्पेदे, काष्ठे घुण इवोल्बणः ॥ २९ ॥ प्रालम्बभ्रष्टकपिवद्, व्रतभ्रष्टो बहिष्कृतः । स्वयूथ्यसंयतैनँव, मरीचिः प्रत्यपाल्यत ।। ३० ॥ अजातप्रतिचारोऽसौ, बबाधे व्याधिनाऽधिकम् । इक्षुवाट इवाऽऽरक्षवर्जितः सूकरादिना ।। ३१ ॥ रोगे निपतितो घोरे, महारण्य इवाऽसखा । एवं विचिन्तयामास, मरीचिनिजचेतसि ॥ ३२ ॥ अहो ! मम भवेऽत्रैवोदीर्णं कर्म शुभेतरम् । मां यदेते परमिवोपेक्षन्ते स्वेऽपि साधवः ।। ३३ ।। यद्वा दिवाकरस्येवोलूकेऽनालोककारिणः । दोषो न कस्याऽपि मयि, साधोरप्रतिचारिणः ॥३४ ।। सावधविरतास्ते हि, सावधनिरतस्य मे । वैयावृत्यं कथं कुर्युर्लेच्छस्येव महाकुलाः ।। ३५ ।। न तान् कारयितुं युक्तं, वैयावृत्यं ममाऽपि हि । व्रतभ्रंशोत्थपापस्य, सन्तानाय हि तद् भवेत् ॥ ३६ ।। तदात्मप्रतिचाराय, मन्दधर्माणमात्मवत् । अन्वेषयामि कमपि, युज्यन्ते हि मृगैर्मृगाः ॥३७ ।। मरीचिश्चिन्तयन्नेवमुल्लाघः कथमप्यभूत् । कालादनूषरत्वं हि, व्रजत्यूषरभूरपि ।। ३८ ॥ अन्यदा स्वामिनः पादपद्मान्ते दूरभव्यकः । कुतोऽपि कपिलो नाम, राजपुत्रः समाययौ ।। ३९ ॥ विश्वोपकारकरणप्रावृषेण्यपयोमुचः । कुर्वतो देशनां भर्तुर्धर्मस्तेन च शुश्रुवे ॥ ४० ॥ ज्योत्स्नेव चक्रवाकायोलूकायेव दिवामुखम् । प्रक्षीणभागधेयाय, रोगितायेव भेषजम् ।। ४१ ।। १ असहायः । २ स्वकीया अपि । ३ नीरोगः ।
मरीचिशरीरे| पीडा,
कपिलस्या| गमनं च ।
।।३०० ॥