SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः श्रीऋषभ|स्वामिचरितम् । ।।२९९ ॥ इतः कुलाद्यमलिनमितश्चाऽसुकरं व्रतम् । इतस्तटीतः शार्दूलः, सङ्कटे पतितोऽस्मि हा ! ।। १३ ॥ आ ज्ञातमथवाऽस्तीह, सुषमो विषमेऽपि हि । पर्वते दण्डकपथ, इव पन्था अयं खलु ।। १४ ॥ मनोवाक्कायदण्डानां, जयिनः श्रमणा ह्यमी । तैरहं विजितोऽस्मीति, भविष्यामि त्रिदण्डिकः ।। १५ ।। अमी मुण्डाः शिरःकेशलुञ्चनेन्द्रियनिर्जयैः । अहं पुनर्भविष्यामि, क्षुरमुण्डशिखाधरः ।। १६ ॥ स्थूलसूक्ष्मप्राणिवधादिभ्योऽमी विरताः सदा । स्थूलप्राणातिपातादिविरतिर्भवतान्मम ।। १७ ॥ एते ह्यकिञ्चना मेऽस्तु, स्वर्णमुद्रादि किञ्चन । एतेऽनुपानेहोऽहं तु, परिधास्याम्युपानहौ ।। १८ ॥ एतेऽष्टादशशीलाङ्गसहस्याऽतिसुगन्धयः । शीलेनाऽहं तु दुर्गन्ध, आदास्ये चन्दनादिकम् ।। १९ ॥ अपमोहाः साधवोऽमी, मोहच्छन्नोऽस्म्यहं ततः । तच्चिह्न धारयिष्यामि, च्छत्रकं मस्तकोपरि ॥ २० ॥ श्वेतवस्त्रधरा एते, कषायकलुषस्त्वहम् । तत्स्मृत्य परिधास्यामि, काषायाण्यंशुकान्यहम् ॥२१ ।। पापभीताः प्राज्यजीवं, जलारम्भं त्यजन्त्यमी । अस्तु स्नानं च पानं च, पानीयेन मितेन मे ।। २२ ॥ स्वबुद्ध्या कल्पयित्वैवं, मरीचिर्लिङ्गमात्मनः । बभार तादृशश्चाऽथ, विजहे स्वामिना सह ।।२३ ॥ नाऽश्वो न च खरः किन्तूभयांशोऽश्वतरो यथा । न संयतो न च गृही, मरीचिरभवत् तथा ॥ २४ ॥ महर्षिषु विजातीयं, मरोलेष्विव वायसम् । तं निरीक्ष्य जनो भूयान्, धर्म पप्रच्छ कौतुकात् ।। २५ ।। मूलोत्तरगुणप्रष्ठं, साधुधर्ममुपादिशत् । स्वयं च तदनाचारे, पृष्टोऽशक्तिं जगाद सः ।।२६ ॥ १ काञ्चनादिरहिताः । २ चर्मपादुकारहिताः । ३ मोहरहिताः । ४ वस्त्राणि । ५ हंसेषु । ६ काकम् । मरीचेर्वेषपरिवर्तनम् । ॥२९९ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy