________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२६४ ।।
आत्मानं मार्जयन्ति स्म, चन्दनोद्वर्त्तनैर्नवैः । महाभटाः सुरभिभिः, स्वयशोभिरिवाऽमलैः ।। ३२३ ।। चक्रुर्भटा मार्गमदीर्ललाटेषु ललाटिकाः । आबद्धमेचेकपटवीरपट्टविडम्बिनीः ।। ३२४ ।। शस्ताणि जाग्रतां भाविशस्त्राशस्त्रिकथाकृताम् । सैन्यद्वयेऽपि वीराणां, निद्रा भीतेव नाऽऽययौ ।।३२५ ।। सैन्यद्वितयवीराणां, प्रातयुद्धाभिकाक्षिणाम् । त्रियामा शतयामेव, कथञ्चिदपि सा ययौ ।।३२६ ।। आर्षभ्योर्वीक्षितुमिव, रणक्रीडाकुतूहलम् । अथाऽऽरुरुोह चण्डांशुरुदयाचलचूलिकाम् ॥ ३२७ ॥ मन्दरक्षुब्धसक्षुभ्यत्पयोधिपयसामिव । पुष्करावर्त्तमेघानामिव प्रलयजन्मनाम् ।। ३२८ ॥ दम्भोलिताड्यमानानामिव सानुमतां महान् । प्रणादो रणतूर्याणां, सैन्ययोरुभयोरभूत् ।। ३२९ ॥
॥युग्मम् ।। उत्कर्णतालास्तत्कालं, वित्रेसुर्दिङ्मतङ्गजाः । सभयभ्रान्तयादस्काश्धुक्षुभुश्च पयोधयः ।। ३३० ।। गुहासु विविशुः क्रूराण्यपि सत्त्वानि सर्वतः । रन्ध्रादपि हि रन्ध्रेषु, न्यलीयन्त महोरगाः ।। ३३१ ॥ गण्डशैलीभवच्छृङ्गाः, शैलाश्च प्रचकम्पिरे । बिभाय सङ्कुचत्पादकण्ठं कमठराडपि ।। ३३२ ।। बाढमध्वंसतेव द्यौर्विदद्र इव मेदिनी । रणातोद्यप्रणादेन, तदा तेन प्रसर्पता ॥३३३ ॥
॥चतुर्भिः कलापकम् ।। राजदौवारिकेणेव, रणतूर्येण चालिताः । उभयोः सैन्ययोः सैन्याः, ससज्जुरथ संयते ।।३३४ ।। रणोत्साहोच्छ्रसद्देहात्, त्रुट्यन्तीवर्मजालिकाः । भूयो भूयो नवनवास्ताः केऽपि समचारयन् ।। ३३५ ।। आरोचकितयाऽश्वान् केऽप्यात्मना समनाहयन् । स्वतोऽपि ह्यधिकां रक्षा, भटाः कृर्वन्ति वाहने ।। ३३६ ।। १ ललाटालङ्कारान् । २ कृष्णवस्त्रं बोध्यम् । ३ शस्त्राशस्त्रियुद्धकथाः कुर्वाणानाम् । ४ भयं प्राप्तः । ५ युद्धाय । ६ कवचजालिकाः ।
भरतबाहुबलियुद्धम् ।
।।२६४ ।।