________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। २६५ ।।
सन्नाह्याऽऽरुह्य केऽप्यश्वान्, परीक्षितुमवाहयन् । दुःशिक्षितो जडश्चाऽश्वः शत्रवत्येव सादिनि ॥ ३३७ ॥ सन्नाहग्राहणे केऽपि, हेषमाणांस्तुरङ्गमान् । आनर्चुर्देववद् युद्धे, हेषां हि जयसूचिनी ॥ ३३८ ॥ लब्धाश्वान् केऽप्यसन्नाहान्, सन्नाहान् विजहुर्निजान् । शौण्डीरदोष्णां समरेष्विदं हि पुरुषव्रतम् ।। ३३९ ।। अस्खलन् सञ्चरैर्घोरे, रणे मत्स्य इवाऽर्णवे । दर्शयेः कौशलमिति, शशासुः केऽपि सारथिम् ॥ ३४० ॥ पथिका इव पाथेयैरस्त्रैः केऽपि निजान् रथान् । समन्तात् पूरयामासुः पश्यन्तः समरं चिरम् ।। ३४१ ।। दूरादात्मख्यापनाय, केऽपि वैतालिकानिव । उत्तम्भितस्वस्वचिह्नान्, ध्वजस्तम्भान् दृढान् व्यधुः ॥ ३४२ ॥ रथेष्वायोजयन् केऽपि, सुश्लिष्टयुगशालिषु । परसैन्यपयोराशिजलकान्तांस्तुरङ्गमान् ।। ३४३ ॥ सारथिभ्यो द्रेढीयांसि तनुत्राणानि केऽप्यदुः । रथाः सरथ्या अपि हि निष्फलाः सारथिं विना ॥ ३४४ ॥ उद्दामलोहवलयश्रेणिसम्पर्ककर्कशान् । आनर्चुर्दन्तिनां दन्तान् केचिन्निजभुजानिव ।। ३४५ ।। करिष्वारोपयन् शारीः, पताकामालभारिणीः । केचिद् वासगृहाणीव, समेष्यन्त्या जयश्रियः ॥ ३४६ ॥ सद्यःस्फुटद्गण्डगजमदैर्मृगमदैरिव । जल्पन्तः शकुनमिति, तिलकान् केऽपि चक्रिरे ॥ ३४७ ।। परेभमदगन्धाढ्यं, वायुमप्यसहिष्णवः । कैश्चिदप्यारुरुहिरे, मनोवद् दुर्धरा गजाः ।। ३४८ ॥ सौवर्णान् ग्राहयामासुः, सर्वैः सर्वेऽपि सिन्धुरैः । समरोत्सवशृङ्गारचोलकानिव कङ्कटान् ।। ३४९ ॥ उन्नालनीलनलिनीलीलया लोहमुद्गरान् । कुञ्जरैर्ग्राहयामासुः, कराग्रेषु निषादिनः ।। ३५० ।। १ शत्रुवदाचरति । २ अश्वशब्दः । ३ पराक्रमिभुजानाम् । ४ चारणान् । ५ दृढतमानि । ६ कवचानि । ७ अश्वसहिताः । ८ गजकवचान् । ९ कस्तूरीभिः ।
प्रथमं पर्व
पञ्चमः सर्गः
श्रीऋषभ
स्वामिचरितम् ।
भरत
बाहुबलि
युद्धम् ।
।। २६५ ।।